2024-04-14 04:11:44 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
प्रकरणाधिकरणविभागः
[ प्रथममधिकरणम् ]
१. विद्यासमुदेश । २. वृद्धसंयोगः । ३. इन्द्रियजयः । ४. अमा-
त्योत्पत्तिः । ५. मन्त्रिपुरोहितोत्पत्तिः । ६. उपधाभिः शौचाशौचज्ञान-
ममात्यानाम् । ७. गूढपुरुषोत्पत्तिः । ८. गूढपुरुषप्रणिधिः । ९. स्वविषये
कृत्याकृत्यपक्षरक्षणम् । १०. परविषये कृत्याकृत्यपक्षोपग्रहः । ११. मन्त्रा-
धिकारः । १२. दूतप्रणिधिः । १३. राजपुत्ररक्षणम् । १४. अवरुद्धवृत्तम् ।
१५. अवरुद्धे च वृत्तिः । १६. राजप्रणिधिः । १७. निशान्तप्रणिधिः ।
१८. आत्मरक्षितकम् ॥ इति विनयाधिकारिकं प्रथममधिकरणम् ॥
------
जयमङ्गला
अध्यक्षाः प्रचरन्त्यनेनेति अध्यक्षप्रचारः धर्मस्थेभ्यो हितं तद्व्यापारोपदेशादिति
धर्मस्थीयम् । कण्टकाः शोध्यन्तेऽनेनेति कण्टकशोधनम् । योगः प्रच्छन्नयोगः तस्य
प्रवर्तनं योगवृत्तम् । मण्डलयोनिर्मण्डलज्ञानकारणम् । षडेव गुणाः षाडगुण्यम् ।
चातुर्वर्ण्यवत् । अभियास्यतः कर्म अभियास्यत्कर्म । सङ्ग्रामा अत्र भवन्तीति
साङ्ग्रामिकम् । अवलीयसामिदम् आबलीयसम् । दुर्गलाभस्योपायो दुर्गलाभोपायः ।
लम्भ इत्यपप्रयोगः "उपसर्गात् खल्घञोः " ( ७-१-६७ ) इति नियमात् । उपनिषद्
रहस्यं तदधिकृत्य कृतम् औपनिषदिकम् । तन्त्रयुक्तयः शास्त्रव्याख्यायुक्तयो बह्वयः,
तासां प्रकरणभूतानामाधारत्वात् तन्त्रयुक्तिरधिकरणम् इति ।
श्रीमूला
तत्र विनयाधिकारिकस्य प्रथमाधिकरणस्य प्रथमं प्रकरणं समुद्दिशति --
विद्यासमुद्देश इति ! विद्यानाम् आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरित्येतासां चतसॄणां
समुद्देशः विद्यासमुद्देशः । तदाख्यं प्रकरणमित्यार्थम् । विद्यासमुद्देश इत्येतच्च
सूत्रमिति व्यवहर्तव्यं, विस्तारार्बहुलार्थगर्भवात् । सूत्रमेव चेदं तत्प्रकरणे 'आन्वी-
क्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः' इत्युपक्रम्य 'स्वधर्मकर्माभिरतो वर्तते
स्वेषु वेश्मसु' इत्यन्तैस्त्रिभिरध्यायैर्महता प्रयत्नेन प्रपञ्च्यत इति सूत्रस्य तथाविधं
व्याख्यानं भाष्यं भवितुमर्हति । एवं प्रकरणाधिकरणसमुद्देशः' इत्युक्तचरमुत्तराण्यपि
वृद्धसंयोग' इत्यादीनि सूत्राणि भवन्ति, तत्तत्प्रकरणगतानि प्रपञ्चनवाक्यानि च
भाष्याणि । एवमधिकरणेषु सर्वेषु । एवञ्च 'स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं
च' इति ग्रन्थान्तोक्तिरुपपन्ना भवतीति वेदितव्यम ।