This page has been fully proofread once and needs a second look.

जयमङ्गला
 
इति । विद्यासमुद्देशादयश्च यथाप्रस्तुतार्थनिमित्तनामानः । निर्वचनं च यथा निर्देशं
वक्ष्यामः । प्रक्रियन्त इति । प्रकरणानि अर्थाः । ग्रन्थभागास्तु तत्साहचर्यात् तन्ना-
मानः प्रकरणार्थाधारत्वात् । अधिकरणानि अधिक्रियन्त एष्विति तानि च यथायथं
 
जयमङ्गलाक्रोडपत्रम्
 
अयं हेतूपन्यासः असम्मोहं प्रति कारणत्वप्रदर्शनार्थः, तेन विदितशास्त्रार्थ-
प्रकरणानुपूर्वीणामित्यनेन न पौनरुक्त्यम् ।
 
असम्मोहेनेति । मोहः किङ्कर्तव्यमूढता चितस्य शून्यतेति यावत्† ।
 
यदि च प्रकरणार्थः सुसङ्गतत्वेन न ज्ञातः तर्हि मोहः सम्भवतीति भावः ।
इदं मोहापसारणं फलमुक्त्वा अपरं फलं प्रदर्शयन्नाह यथाऽभिलषितेति । यं विषयं
अध्येतुमध्येता इच्छति सः विषयः कुत्र वर्तते इति अध्येत्रा उद्देशग्रन्थेन ज्ञातं चेत्
तावानेव विषयस्तेन सारल्येन अध्येतुं शक्यते अन्यथा विषयस्थलस्यापरिचयात्
सर्वस्य ग्रन्थस्य अध्येयत्वमापद्येत इति । उद्देश्यसिद्धौ च महान् श्रमः स्यात् । इत्यपि
बोध्यम् ।
 
इष्टमिति यद्यपि इष्टं हि विदुषां लोके इति इदं पद्यं कामसूत्रे उपलभ्यते तथापि
जयमङ्गलाकर्ता व्यासोक्तत्वेन अनुमन्यते, तेन "तदुक्तं व्यासेने"ति अभिधानात् ।
 
प्रकरणार्थाधारत्वात् प्रतिपादकतासम्बन्धेन इति शेषः ।
 
यथायथमिति । निर्मित्तं शक्यतावच्छेदकं तद्भेदाश्च ये उपात्ताः तेषां
समाख्याप्रतिपादकाः शब्दाः विनयाधिकारिकमित्यादयः येषां तानि अधिकरणानि
इति यावत् ।
 
------
 
† तदुक्तं भावप्रकाशने ।
 
मोहश्चित्तस्य शून्यत्वं पूर्ववैरस्मृतेर्मदात् ।
दैवोपघातान्मात्सर्यात् भयाच्चापि प्रहारतः ॥
आवेगात् तत्प्रतीकारविहतेरेवमुद्भवेत् ।
निश्चेष्टता प्रपतनं वैवर्ण्यं देहघूर्णता ॥
<flag>सर्वेन्द्रियप्रमोहश्च</flag> निःश्वासो नष्टसंज्ञता ।
मोहस्य कथिताः सद्भिरनुभावाः स्वरूपतः ॥
 
भा॰ प्र॰ १ अधिकारः
 
तथा काव्यप्रकाशविवरणे -- 'मोहो विचित्तता' भीतिः दुःखावेगानुचिन्तनैः इति धनिकः ।
विचित्तता चित्तस्य चैतन्यस्यापाटवम् । यथा -- 'इतिकर्त्तव्यतोपायादर्शनं मोह उच्यते' इत्यग्नि-
पुराणम् । परस्परविरोधिनानाकर्तव्योपनिपाते किंकर्तव्यमित्यनिर्धारणं मोह इति तदर्थः । इति ।
 
चतुर्थ उल्लासः । १५९ पृष्ठम् ।