This page has been fully proofread once and needs a second look.

जयमङ्गला
 
शास्त्रार्थं प्रकरणानुपूर्वीकाणाम् प्रज्ञातप्रकरणार्थत्वात् असम्मोहेन[^१] अध्ययने प्रवृत्तिः
यथाभिलषितप्रकरणार्थप्रत्यवमर्शश्च[^२] भविष्यतीति । एवं च कृत्वोक्तं व्यासेन--
"इष्टं हि विदुषां लोके समासव्यासती भाषणम् ।"
 
( आदिपर्व <flag>९।४९</flag> अधि॰ १, अध्या॰ १ )
 
जयमङ्गलाक्रोडपत्रम्
 
प्रकरणानां प्रकरणसमूहात्मकानामधिकरणानां स्वरूपं संख्य । च निर्दिष्टा अस्ति
इत्यभिप्रेत्याह-तत्रेति ।
 
समुद्देशनिरूपणफलमाह । 'अस्य चेति' ।
 
आनुपूर्वीणामिति । एतेन पूर्वापरप्रकरणयोः सङ्गतिः सुस्पष्टा भवति ।
तस्य फलमध्येतॄणां प्रज्ञातप्रकरणार्थत्वात् असम्मोहो बोध्यः । ननु च प्रकरणानां
सङ्गतिप्रदर्शनं यथा क्रियते तथा अधिकरणानां सङ्गतिः कुतो न प्रदर्शिता ? इति
चेदुच्यते ।
 
अधिकरणं हि न प्रकरणादन्यत् अपि तु प्रकरणसमूहः । तच्च सिद्धान्त-
शिरोमणिटीकायां मरीच्याम् त्रिप्रश्नाधिकारे द्रष्टव्यम् <flag>'</flag> ।
 
वक्ष्यति च टीकाकारः पञ्चमाध्याये "सप्रकरणान्येवे"त्यादिना ग्रन्थेन । न च
प्रकरणयोः परस्परसङ्गतिप्रदर्शनवत् पूर्वोत्तरसूत्रयोरपि सङ्गतिः कुतो न प्रदर्शिता
इति वाच्यम् । टीकाकृतैव पञ्चमाध्याये प्रश्नस्यास्य समाधास्यमानत्वात् ।
प्रकरणत्वं च एकार्थत्त्वम् इति अधोनिर्दिष्टटिप्पण्या सिद्धम्𑁍 । प्रज्ञातेति ।
 
------
 
[^१]. इत्यादि धाक्यं लेखकप्रमादात् अशुद्धं भाति । अतः कामसूत्रीय जयमंगलानुसारेण
संयोजनीयम् ।
 
अशुद्धम्
 
नुपूवींकाणामसम्मोहेन ( पा॰ ) ।
 
[^२]. प्रकरणसार्थ ( पा॰ ) ।
 
[^१]. च प्रज्ञासमाना भविष्यति ( पा॰ ) ।
 
[^१]. तं बुद्धिस्थं-अधिकारं अधिक्रियन्ते गणितादीनि यत्रासावधिकारस्तं प्रकृतार्थ -
जिज्ञासाऽगमप्रयोजकतापर्याप्त्यधिकरणीभूतं ग्रन्थैकदेशमिति यावत् । प्रकृतत्वं च उद्देश्यविषय-
तापर्याप्त्यधिकरणत्वम् । तत्वं चाधिकारप्रतिपादितसकर्लोर्थं इति न कापि क्षतिः इति ।
 
𑁍 पूर्वप्रकरणापेक्षं हि तदुत्तरसूत्रम् । उत्तरसूत्रत्रकरणानुरूपं च तदादिमसूत्रम् ।
तयोः स्वप्रकरणे गुणीभूतयोः नापेक्षा । यथा वाक्यावयवानां पदानां वाक्यान्तरावयवैर्ना-
पेक्षा । कथमधिकरणानां प्रकरणानां सम्बन्ध इति चेत् प्रकरणान्येवैकार्थानि अधिकरणं,
अधिकरणत्वमेवैषां न समुदायान्तरमित्यदोषः" । ( प्रक्रियन्त इति प्रकरणानि अर्थाः ) ज॰