This page has been fully proofread once and needs a second look.

तस्यायं प्रकरणाधिकरणसमुद्देशः --
 
------
 
श्रीमूला
 
तदिदमर्थशास्त्रं साशीतिशतसङ्ख्यैः प्रकरणैः तत्परिच्छिन्नैश्च पञ्चदश-
सङ्ख्यैरधिकरणैर्विभज्य प्रस्थापितम् । तेषु यथास्थानं वितत्य विशेषतो व्युत्पाद-
यिष्यमाणेषु प्रथमं विषयतः समाख्यातः क्रमत इयत्तया च किमपि सामान्यज्ञानं
विशेषजिज्ञासानिमित्तं शिष्याणां जनयितुं तत्समुद्देशं प्रतिजानीते - तस्यायमिति ।
तस्य अर्थशास्त्रस्य, अयम् आरब्धाध्यायगोचरः प्रदर्श्यमानप्रकारः । प्रकरणाधिकरण-
समुद्देशः, प्रकरणानामधिकरणानां च सर्वेषां समुद्देशः संक्षेपेण निर्देशः संक्षिप्त-
स्वरूपक्रमेयत्ताख्यानमित्यर्थः । क्रियत इति शेषः । प्रक्रियन्ते प्रकर्षेण व्युत्पाद्यन्ते
एष्वर्था इति प्रकरणानि । अधिक्रियन्ते विषयीक्रियन्ते एषु प्रकरणानीत्यधिकरणानि ।
 
वैदिकसिद्धान्तसंरक्षिणी
 
तस्य निर्देशग्रन्थस्य । अयं बुद्धिस्थः उद्देशग्रन्थ । तस्य नामामिधातुमाह
प्रकरणेति । तत्त्वं च तत्तत्फललाभाय तत्तत्साधनसामग्रीविषयिणी या जिज्ञासा तद्विष-
यतापर्याप्त्यधिकरणत्वं यावत्स्वर्थेषु तावतामर्थानामभिधायकवाक्यकूटत्वम् । तत्स-
मुदायोऽधिकरणम्। इत्येतत् सर्वं जयमङ्गलाव्याख्यायां स्फुटं भविष्यति । तयोः समुद्देशः
संक्षेपेण कीर्तनम्, "समुद्देशः समासेन कथन" मिति तन्त्रयुक्तौ व्याख्यानाद्बोध्यम् ।
 
अत्र पुनः समस्तस्य संक्षेपेण सूत्रमुखेन निर्वचनं पौनस्वत्याय भवतीति
न मन्तव्यम् । यतो यं विषयं अध्येतुमिच्छति जिज्ञासुः स विषयः कुत्र वर्णितो वर्तते
इति अनेनोद्देशग्रन्थेन ज्ञात्वा तावान् विषयः सारल्येन तेन ज्ञातव्यः स्यात् इति
प्रयोजनसत्त्वान्न पौनरुक्त्यम् । शेषं तदीयटीकाव्याख्यायां वक्ष्यते । उद्देशं
कीर्तयति मूले विद्यासमुद्देश इत्यारभ्य तन्त्रयुक्तय इत्यन्तेन । शेषं निगदव्याख्यातम् ।
 
जयमङ्गला
 
शास्त्रप्रणयनं च द्विधा समुद्देशतो निर्देशतश्च । तत्र स्वरूपसङ्ख्याभ्यां
पूर्वमधिकृत्याह - तस्येति । संक्षिप्तस्य शास्त्रस्य । अयमिति । प्रकरणानामधिकरणानां
च समुद्देशः, समासवचनम् । वक्ष्यति -- "समासवाक्यं समुद्देशः", "व्यासवाक्यं
निर्देशः " ( अधि॰ १५ अध्या॰ १ ) इति । अस्य च प्रयोजनम् अध्येतॄणां विदित-
 
<error>जयमङ्गलाक्रोडपम्</error><fix>जयमङ्गलाक्रोडपत्रम्</fix>
 
समुद्देशतः संक्षेपतइति यावत् ।
 
निर्देशतः विस्तरतः इत्यर्थः, तन्त्रयुक्तौ तथैव व्याख्यानात् । उद्देशग्रन्थे
 
------
 
भगवत्पाददादिभिः प्रतिपादित इत्येषां सर्वेषां प्राचीनग्रन्थसत्यत्वे तत्प्रतिपाद्यविषयपरिच्छेदे च
स्वतःप्रामाण्याभ्युपगमे न कस्यापि विमतिरुचिता ।