This page has been fully proofread once and needs a second look.

जयमङ्गला
 
तुल्यं स्वर्गारोग्यापवर्गार्थेषु शास्त्रेषु । न सर्वे तद्विदो धर्माधर्मसेवापरिहारयोः पथ्यापथ्या-
हारसेवासेवयोः रागादिहानौ तत्वज्ञाने चाभिनिविशमाना दृश्यन्ते । ये तदर्थनो भक्ति-
श्रद्धान्वितास्तेऽपि शास्त्राणां प्रयोजनहेतव इत्यन्यशास्त्रवद् इदमप्यादरणीयमिति ।
 
जयमङ्गलाक्रोडपत्रम्
 
इदं नीतिशास्त्रम् ।
 
------
 
"इम उद्वासीकारिण इमे दुर्भूतमक्रन्नित्यन्यतरः ( ते॰ ब्रा॰ १-३-६ ) इत्यादि
तैत्तिरीयब्राह्मणसंवादात्, "उद्वासं निवासशून्यम्" । इति तत्रत्यसायणभाष्यसंवादाच्चोद्वासी-
क्रियन्ते इत्येव पाठः सङ्गतः, लेखकप्रमादादुदासीक्रियन्ते इति पाठो मुद्रितः । जयमंगलाकारेण
स्वकीयग्रन्थेषु दण्डिकृतकाव्यादर्शस्योद्धरणात् स दण्ड्युत्तरकालिक इति तात्कालिकीं परिस्थितिं
वक्ष्यमाणरीत्या आवेदयन् "उद्वासीक्रियन्ते" इत्याकारकं एव पाठमस्मदुक्तरूपं प्रयुक्तवान्
इति भाति । किम्बहुना --
 
"वानप्रस्थादन्यः प्रव्रजितभावः, सजातादन्यः सङ्घः, सामुत्थायिकादन्यः समयानुबन्धो
वा नास्य जनपदमुपनिविशेत" । ( कौ॰ २ अधि॰ १ अ॰ ४ सू॰ )
 
"ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुमभ्याभवेयुः ।"
कौ॰ ३ अ॰ ९ अ॰ १ सू॰
 
इत्यादिना जातिव्यवस्थावर्जितानां वास्तुभूमिलाभाभावव्यवस्थापनं कौटिल्योपज्ञमेव
प्रवर्तते । नीतौ विधानरूपेणागतस्य तस्य विषयस्य वर्तमानरूपेण निर्देशो जयमङ्गलाकृता क्रिय-
माणस्तस्य पञ्चमषष्ठशताब्दीवर्षासन्नकालभवत्वं सूचयति । तेन प्रोक्ते पञ्चदशे वाक्ये
अपनयबाहुल्यादनधीतशास्त्राणां यदुद्वासनं प्रतिपाद्यते तद्बौद्धीयदशरथजातकोक्तां तत्कालभवां
परिस्थितिं यद्यनुमापयति तर्हि न कस्याप्यत्र दोषोऽनुमातुर्वक्तुर्वा वक्तुं शक्यते ।
 
"नचान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो
दृश्यते ( न्या॰ सू॰ २-१-६८ ) इति न्यायवार्तिकतात्पर्यटीकाकर्तुर्वैदिकागमविषयक उल्लेखः,
"कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद्बोद्धव्यम् ।" इति (सा॰ कीं॰ ५ का॰ )
तदीय सांख्यतत्त्वकौमुद्युल्लेखश्चैतन्मूलभूतः श्लोकवार्तिकगतः --
 
"न चापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते ।
विगानाच्छिन्नमूलत्वात्कैश्चिदेव परिग्रहात् ॥"
 
इत्याद्युल्लेखश्च जयमंगलाकृदुक्तमुद्वासनकारणमपनयबाहुल्यमिति विशदयति ।
 
क्रिस्तपूर्वषष्ठशताब्दे प्रवृत्ते सहस्रसंवत्सरव्यायिनि बौद्धकाले आयुर्वेदादिविषयान्
विहाय लुप्तप्रायाणां भारतीयानां कतिपयानां विद्यानां पुनरुज्जीवनं पाणिनिप्रभृतिभिः सर्व-
तन्त्रस्वतन्त्रैराचार्यैः कृतम् । एवंविधेऽपि बौद्धसमये ऽलुप्तप्रचारमिदं नीतिशास्त्रं जयमङ्गला -
कारादिभिर्बोद्धैरेव परिगृहीतं यद्वर्णयति तदविरोध्येवार्थः उत्तरत्र कुमारिलभट्टपाद-शङ्कर-