This page has been fully proofread once and needs a second look.

जयमङ्गला
 
पूर्वदेहोत्पन्नौ धर्माधर्मौ प्रत्युत्पन्नपरिपाकौ देहकारणानां सन्निवेशविशेषरचनायाः
कारणीभवतः । एवमिष्टानिष्टफलप्राप्तिपरिहारनिमित्ताय प्रवृत्तिविशेषाय[^१] अनन्ताय
पुरुषतर्कागोचराय तावेव प्रभवतः इति न किञ्चिद्अनिमित्तं फलमस्ति । येषामपि
शास्त्रविदाङ्केषाञ्चिदपनयात् अनर्थेन योगः स तेषामेवापराधो न शास्त्रस्य ।
नोलूकः पश्यतीत्यादित्येन नोदेतव्यम् । प्रतिपत्रपराधाच्च शास्त्रानर्थक्यं सर्वशात्रेषु
 
जयमङ्गलाक्रोडपत्रम्
 
स च "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधेको ऽनुगच्छन् । उपा-
धिना क्रियते भेदरूपः" इत्यादिश्रुत्या ज्ञायते । प्राज्ञतैजसविश्वात्मकेषु जीवस्वरूपेषु
स्वप्नदशायां पित्ताख्यतेजःप्रचुरत्वादात्मप्रकाशमयत्वाद्वा तैजस इति वेदान्तशात्रे
व्यपदिश्यते च । विद्युत्कणैरेव सर्वजगत्सृष्टिर्जातेति वदद्भिराधुनिकर्वैज्ञानिकैरपि
निर्विवादं प्रत्यक्षीक्रियत एव ।
 
"एकोऽहं बहु स्यां प्रजायेये"ति श्रुत्या वर्ण्यमाना जगन्मूलप्रकृतिगतेयं शक्तिः
स्वतन्त्रचेतननिष्ठेति पौराणिकानां सिद्धान्तः, जडप्रकृतिनिष्ठेति निरीश्वरवादिनां
नवीनवैज्ञानिकाम् । "स्वातन्त्र्यमेव चेतनत्वं, पारतन्त्र्यमेव जडत्व"मिति नवीन-
वैज्ञानिकाविरुद्धप्रत्यभिज्ञादर्शनोक्तजडचेतनलक्षणानुसारेणापि तस्याश्चेतननिष्ठत्वमिति
पौराणिकसिद्धान्त एव हृदयावर्जको भवति । अयमेवेच्छाज्ञानक्रियाशक्त्यात्मकः
समूहः आनन्दरूपतामपि गच्छति । तथा च यस्यैव पुरुषस्य ज्ञानाधिक्यं क्रिया-
शक्त्याधिक्यं तदुभयवशेन सफलेच्छता च स एव शक्तिमानुत्तमश्चेति गीयते । इदं
शक्त्याधिक्यं जगन्मूलायां प्रकृतावीश्वरे च निरवधिकं मन्तुमुचितम् । तदीयानां
नियमानामनुसरणेनैव मनुष्यजातेरप्यभ्युन्नतिर्भवितुमर्हतीत्यत्र नास्त्येव पौराणिक-
नवीनमतयोः कोऽपि भेदः । इयानेव परं विशेष एनयोर्मतयोः - "यदेव किञ्चानू-
चानोऽभ्यूहत्त्यार्षं तद्भवती"ति निरुक्तस्मृत्यनुसारेण पूर्वशास्त्रानुसरणमुन्नतेर्बीजमिति
पोराणिका वदन्ति । पूर्वयुगमज्ञानबहुलमुत्तरोत्तरं प्रज्ञाविवृधिषु, भविष्यति कस्मिंश्चि-
दागामिनि काले प्रयोगोपलब्धज्ञानानां उपलब्ध्या सर्वज्ञतेति नवीनमतम् । एतादृश-
नवीनमतानुसारेणैव बौद्धादिभिः पृथक्प्रस्थानोपदेशाः प्रणीताः । भारतीयराजनीति-
विदां तु प्रथमः पक्ष एव रोचते । तत्र कारणं तु व्याकरणशास्त्रेणैवं प्रतिपादतम् ।
"रक्षोहागमलघ्वसन्देहाः प्रयोजन"मिति त्रिमुनिव्याकरणेनैव तत्संस्कृताः शब्दाः
 
------
 
अशुद्धम्
 
[^१]. निमित्त यः प्रवृत्तिविशेष ( पा॰ )