2024-04-10 04:47:34 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
जयमङ्गला
दुःखम् अन्यथा अदुःखं भवतीति तमोबाहुल्येऽपि यच्च यावच्च प्राकाश्यं लभन्ते ।
कदाचिद् वासनानुगमाच्च--अनन्तरेषु व्यवहितेषु च जन्मसु दर्शनश्रवणादिभिः
सर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्राणां यदृच्छोत्पन्नवासनाप्रबोधानां हिताहित-
वस्तुन्यभिलाषेतरौ भवतः । ततश्चाभिप्रेतलाभः परिहारश्च । कदाचिद् परप्रयत्नात्-
उपकरणसम्पदायत्तमात्मोपकारं मन्यमानो गोवत्सादिवदनं मातुरूधःप्रवेशं योजयन्
स्वार्थं साधयति । साऽन्येषां च परनीत्यपेक्षया प्रवृत्तिः साफल्यं लभते । कदाचिददृष्टात् -
जयमङ्गलाक्रोडपत्रम्
संस्कारस्य प्रकाशमयत्वं वाटिकारूपकेण स्फुटीभवति । संस्काराणां प्रत्यक्षज्ञानजन-
कत्वस्य तद्ग्रन्थादेवावगमात् ।
पूर्वोक्तपद्ये शास्त्रान्धकार इत्युपक्रमादुतरोत्तरं सूक्ष्मतर-सूक्ष्मस्फुट-प्रकाश-
लाभस्तास्ववस्थासु लभ्यते । सामान्यविशेषप्रकाशयोर्भेदस्तु न्यायमञ्जरीकारेण
माघपद्यमुदाहृत्य वर्णितश्चयस्त्विषामित्यादिना[^१] ।
रामायणाद्युपर्वणितै रामरावणादिपदै <flag>र्यद्रामत्वं</flag> रावणत्वादिकं वा प्रकाशते,
तद्धि उदात्तनायकत्वादिरूपं सामान्यप्रकाशरूपमेव भवत्याधुनिकतमानामपि ।
"यदादित्यगत"मिति गीतापद्ये[^२] भास्वररूपविशिष्टो यस्तेजोविशेषः उपास्यतया
प्रतिपाद्यते सः "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः" ।
इत्यादिगीतावाक्येनेश्वररूपतया वर्ण्यते । सोऽयं वह्निः घटपटादिपदवाच्यजाति-
रूपः सन् "समानोग्निः" इति भावप्रकाशनोक्तरीत्या[^३] विद्युत्समूहमयत्वात्तज्जातीय-
व्यक्तीनामनन्तानां सृष्टिजनकः, एकः सूर्य इवासंख्येषु दर्पणादिषूपाधिषु अनन्तानां
सूर्यप्रतिबिम्बानां जनक इवः चरकसंहितोक्त[^४] वैद्यकसिद्धान्तसिद्धः आस्ति ।
------
[^१]. चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः । इति ।
[^२]. यदादित्यगतं तेजो जगद् भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् । भ॰ गी॰ १४-१२
[^३]. समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः ।
अन्नं गृह्णाति पचति विवेचयति मुञ्चति । भा॰ प्र॰ ७ अ॰ १९४ पृ॰
[^४]. सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम् ।
ह्रासहेतुर्विशेषश्च प्रवृत्तिरुभयस्य तु ।
सामान्यमेकत्वकरं विशेषस्तु पृथक्त्वकृत् । चरके सूत्रस्थाने ४२-४३