This page has been fully proofread once and needs a second look.

इति पद्योक्तेषु आक्षेपसमाधामनप्येकं कर्तव्यमस्ति । आक्षेपाश्च पुनः पुनर्नूतना उद्भूता भवन्ति । तेषां समाधानार्थं पुनरपि अन्यस्य टीकाग्रन्थस्य निर्माणमावश्यकं भवति । अन्यथा ग्रन्थे अप्रमाण्याशङ्काकवलितत्वानुपयोगित्वादिभिः दुष्टत्वमापद्येतेति नूतनाक्षेपसमाधानाय चिकीर्ष्यमाणस्यास्य "वैदिकसिद्धान्तसंरक्षण्या" --- ख्यस्य टीकाग्रन्थस्य प्रयोजनवत्वं स्फुटं भवेत् ॥
 
अर्थशास्त्र-प्रयोजनम्
 
अर्थशास्त्रारम्भस्य प्रयोजनं किमिति चेदुच्यते । स्थापितेऽपि लोकतन्त्रे लोकमतं शासनसञ्चालनायापेक्षेतं स्वयमेव न प्राप्यते । तत् कथञ्चित् प्राप्तमपि अचिरादेवाननुकूलं भवति सत्वस्य शीलस्य चाभावे । तथा सति स्तब्धता मानः परस्परविरुद्धार्थकबुद्धीनामव्यवधानेनोत्पत्तिरूपा चपलता च नैयत्येन भवति । एतेषु दोषेषु समुद्भूतेषु सत्सु भ्रान्तिप्रमादविप्रलिप्सादयो दोषाः स्वयमेवोत्पद्यन्ते । तेन लोकमतं प्रतिकूलं भवति । नियतफलप्राप्तिरपि शास्त्रमन्तरा न भवितुमर्हति सन्दिग्धे फले प्रवृत्तिस्तु नीत्यपसिद्धान्तः । अतः फलप्रमाज्ञानार्थं शास्त्रारम्भस्य आवश्यकता । शास्त्रप्रसूतं ज्ञानं पूर्वपरम्परया सर्वज्ञेश्वरात् प्राप्तं यत् तदेव ज्ञानं यद्यस्मिन्निष्ठं भवति तदा तत्र नित्यज्ञानावृत्तिविषयताशून्यत्वरूपं प्रमात्वमक्षुण्णं भवति ॥
 
सत्वपरिष्कारः
 
किञ्च शास्त्रप्रसूतमीशसमवेतज्ञानसमानाकारम् ज्ञानं अस्मन्निष्ठं चेत् सत्वाय भवति इति प्रत्यभिज्ञादर्शने उक्तम् ।
 
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये ते एव पशोः सत्वं रजस्तमः । इति
 
यदा किल ईशसमवेतं ज्ञानमस्माकमानन्दरूपतया भातं भवति तदा तत् भानं सत्वपदेन बोध्यते । तथोक्तं भावप्रकाशने ---
 
ज्ञानप्रभा च सानन्दा तस्याः सत्वं प्रजायते । इति ॥
 
सत्वं राज्यमूलं
 
एवं च एतस्य सत्वस्य बलेनैव ---
 
दिव्येन्द्रजालरम्यार्थदर्शनाभीष्टसिद्धिदः ।
अद्भुतः सोऽभिनेतव्यः श्लाघारोमाञ्चदानतः ॥
 
इति नाट्यदर्शनोक्तरीत्या रम्यार्थदर्शनाभीष्टसिद्धिद्वारा जनश्लाध्यतादिकमुपलभ्य राजा सर्वेषां ध्यानं स्वामिन् प्रापयति इति सत्वमेव शास्त्रप्रसूतज्ञानोपलब्धं लोकतन्त्रमूलभूतमिति सिद्ध्यति । तदेवोक्तं कामन्द्कीयजयमङ्गलायाम् ---
 
विद्याप्रतिबद्धत्वाल्लोकस्थितेः । इति ॥