This page has been fully proofread once and needs a second look.

जयमङ्गलाक्रोडपत्रम्
 
साहमन्त्रजा" इति तज्जन्यत्वं निर्दिश्यते इत्यस्त्येव कश्चिदत्र विशेष आलोचनीयः ।
तथाहि--भावप्रकाशने-परस्मादात्मनो भान्ति[^१] । इत्यनेन हि सर्वान्तर्यामिपरमात्म-
समवेतप्रभात्रयमिश्रणस्य शक्तिरूपत्वमुच्यते । "स न्यस्तचिह्नां"इतिना कलिदासोऽपि
तादृशं प्रभाविशेषं राजशरीरे सम्मनुते[^२] । तदेव तेजः कोशदण्डादिमत्वमिति पदेन
मतुप्प्रत्ययोत्तरत्वप्रत्ययवाच्येन नयचन्द्रिकाकारः प्रतिपादयति । अन्यथा "कोष-
दण्डादि" इत्येव ब्रूयात् । सा सत्ता सा महानात्मा तामाहुस्त्वतलादयः ।
 
इति वदन्तो वैयाकरणा अपि तदेव तेजस्त्व-तलादि शब्दवाच्यमिति प्रति-
पादयन्ति । मनसि सदा सुसमाधिनि[^३] इत्यादिना साहित्यशास्त्रविद्भिर्वर्ण्यमानं
शक्तित्त्वमेतादृशं उक्ततेजोरूपप्रकाशविशेष एव । यम्—
 
शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।" ( का॰ १ उ॰ )
इत्यादिना काव्यप्रकाशकारो व्याजहार ।
 
अत्र "अवेक्षणादिति व्याचष्टे, विमर्शनादिति । विमर्शनमनुषङ्गः पौनः-
पुन्यम् । निपुणतापदार्थं व्याचष्टे व्युत्पत्तिरिति । तत्तदर्थगोचरो दृढतरः संस्कारः
तत्तद्वाक्यार्थप्रतिसन्धानं वेत्यर्थः । स्रग्धरावृत्तत्वावच्छेदेनादौ गुरुचतुष्कत्वमिति
संस्कारदार्ढ्यं व्युत्पत्तिः "सानन्दं नन्दिहस्ते"त्यादौ तत्तदानुपूर्वीकपदगोचरः संस्कारः
शक्तिरिति विवेकः । एवं शास्त्रान्तरविषयेष्वपि प्रणिधेयः सामान्यविशेषभावेन
व्युत्पत्तिशक्तिविषययोर्भेद" इति गोकुलनाथोपाध्यायकृतकाव्यप्रकाशविवरणमव-
धेयतामर्हति ।
 
"आदौ शास्त्रान्धकार" इति वसिष्ठस्मृतिटीकामङ्गलपद्ये[^४] अन्धकारमयाच्छा-
स्त्रावरणात्तृतीयां व्युत्पत्तिकक्षामतीत्य लब्धो वाटिकाविशेषरूपः संस्कारविशेष एव
शक्तितत्त्वमिति वर्ण्यते । तदेतद् गोकुलनाथोपाध्यायोक्तरीत्या सामान्यविशेष-
गोचरोद्बुद्धसंस्कारयोर्व्युत्पत्तिशक्तिरूपत्वे घटते । विशेषतः शक्तिरूपस्योद्बुद्ध-
 
------
 
[^१]. परस्मादात्मनो <flag>भन्ति</flag> ज्ञानानन्दक्रियाप्रभाः ।
ज्ञानप्रभा च सानन्दा तस्याः सत्त्वं प्रजायते ॥
क्रियाप्रभा रजः सत्त्वाच्छक्तिः <flag>स्यात्तु</flag> तमःप्रसूः ।
 
[^२]. स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ रघु॰ २-७
 
[^३]. मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽमिधेयस्य ।
अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥
 
[^४]. आदौ शास्त्रान्धकारे पतित इव ततोऽभ्यासमार्गे चरिष्णुः ।
पश्चाद्व्युत्पत्तिदेहल्युपग इव ततः शक्तिवाटीप्रविष्टः ॥
नानाशब्दाख्य<flag>पुष्पा</flag>वचयकरणतो वाग्वशीभूतविश्वो ।
यत्प्रेमापाङ्गदृष्ट्या भवति कविवरो भारती सा पुनातु ॥
 
<flag>६</flag>