2024-03-29 10:06:46 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
जयमङ्गला
इत्येषां हिताहितप्राप्तिपरिहारौ । क्वचिन्मात्रादिचरितोपदेशापेक्षया--नहीदं
कुर्विदं मा कार्षीरिति वाचैव श्रोतॄणां शब्दार्थप्रतिपतॄणामुपदेशः, किन्तर्हि अनुकर्त्तॄणां
नाट्योपदेशवदुपदेशः । कदाचिदनायोगात्--यस्यां प्रवृत्तौ बाध्यन्ते न च फलं प्राप्नु-
वन्ति ततो निवृत्याऽन्यत्र निराबाधं फलं च किञ्चिल्लभमानाः पौनःपुन्येन इदमतो
जयमङ्गलाक्रोडपत्रम्
ध्ययनाधीनः ऐकान्तिको निश्चयो भक्तिश्रद्धापुरस्सरं सम्पादनीय इति द्वात्रिंश-
वाक्यस्य तात्पर्यम्" इति ।
ननु जयमङ्गलाकृन्मते नीतेः लक्षणं प्रत्यक्षानुमानागमप्रमाणदेशकालशक्ति-
पुरस्सरार्थसाधनविनियोगलक्षणा क्रिया नीतिः इत्युक्तम् । तत्र शक्तिस्वरूपं
कीदृक् ? इति चेत् उच्यते ।
शक्तिस्वरूपम्
उक्तलक्षणे शक्तिपदनिवेशात्मकस्य विशेषस्यार्थदृष्टया महद् गौरवं वर्तते ।
यतोऽर्थशास्त्र एव नवमाधिकरणे प्रथमाध्याये प्रथमसूत्रे "शक्तिदेशकालबलाबले"त्येवं
पठितम् अतो देशकालशक्तीनां विचारो नीतौ परमावश्यक इति व्यक्तम् । सोऽयमावश्य-
को विषयः उपाध्यायनिरपेक्षाकृता कृते प्रागुक्ते लक्षणे देशकालानुकूल्ये इति भागे
अव्यक्ततया स्थितोऽपि जयमङ्गलाकारेण स्फुटं निर्दिष्टः स्वयंकृते प्रागुद्धृते लक्षणे ।
शक्तौ सत्यां साधनविनियोगः स्वयमेव भवति, अतः स न प्राधान्येन नीति-
शास्त्रस्य विषयः किन्तु शक्तिसाधनमेवेति जयमङ्गलाकृतोऽभिप्रायोऽत्र स्फुटः ।
[^१]''रुद्रहीनम्" इति वचनानुसारेण शक्तेः समुपार्जनं तस्या यथावद्विनियोगश्च
नीतिशास्त्रस्य मुख्यं लक्ष्यमिति स्थिते "नरत्वं दुर्लभम्"𑁍 इत्यग्निपुराणवचनानु-
सारेण शक्तेः समुपार्जनविनियोगौ कस्यचिदेव पुण्यवतो महापुरुषस्य हस्तगतौ
भवतो न सर्वेषाम् ।
यद्यपि "शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः" इत्यमरकोशानुसारेणार्थ-
शास्त्रीयनवमाधिकरणाद्याध्यायोक्तप्रकारेण च प्रभावमन्त्रोत्साहशक्तय एवात्र विव-
क्षितास्तथापि प्रभावादीनां स्वरूपनिर्धारणे किञ्चिद्वैलक्षण्यमवश्यमालोचनीयता-
मर्हति । नयचन्द्रिकाकारेण हि "उत्साहः शौर्यादिमत्वं प्रभावः कोषादिमत्वं,
मन्त्रश्च-विचारपूर्वककार्यनिश्चयश्चेति व्याख्यानं कृतम् । तथाप्यमरकोषे "प्रभावोत्-
------
[^१]. रुद्रहीनं <error>विप्णु</error><fix>विष्णु</fix>हीनं न वदन्ति नराधमम् ।
शक्तिहीनस्तु यो मर्त्यस्तं वदन्ति नराधमम् ॥
𑁍 नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥