This page has been fully proofread once and needs a second look.

जयमङ्गला
 
मपि म्लेच्छादीनां जलारण्यान्तरिक्षवर्तिमीनमृगपक्षिबन्धनार्थसाधनविनियोगलक्षणा-
नीतिः[^१], तथा अशास्त्रविदां तुल्येऽपि शास्त्रे केषाञ्चिदर्थेन योगोऽन्येषामनर्थेनेति ।
अत्रोच्यते--
 
"नीतेर्विना फलं नास्ति शास्त्रेणैकान्तिको नयः ।
शास्त्रे सत्यपि नावश्यमिति सर्वेष्वदः समम् ॥" इति ।
 
पशवो हि मनुष्यप्रयुक्तैः पाशकूटादिभिरुपहन्यमानाः पाशादिविमोचना-
कुशलाः विनाशम्, बालाश्च परिहारानभिज्ञाः सर्पाद्युपद्रावादिकमासादयन्तो नीतेर्विना
दृश्यन्ते । अतो नीतेर्विना फलं नास्ति । अनधीतशास्त्राणामपि यत् कदाचित् हिता-
हितप्राप्तिवर्जनं तदपि यादृच्छिकीन्नीतिमेवासाद्य भवति । सा चैवंविधा नीतिर्घुणा-
क्षरकल्पत्वादनाश्वासा । अपनयबाहुल्याच्चैते शास्त्रविद्भिरुद्वासीक्रियन्ते[^२] । शात्रेण
तु सम्यक्करणीयवर्जनीयविधानादैकान्तिकत्वं नीतेः क्रियते । उपदेशादिष्वसा
[^३]वपरिच्छेदोऽप्येषां यदा भवति तदा प्रामाण्यमन्येभ्य एव । तथा हि--
 
"उपदेशादनायोगाद् वासनानुगमादपि ।
परयत्नाददृष्टाद् वा सर्वाः सर्वत्र वृत्तयः ॥"
 
जयमङ्गलाक्रोडपत्रम्
 
काख्यस्तर्क एव वा पूर्वोक्तबाधासहकृतः शरणीकरणीयः । उभयथाप्यनधीत-
व्याकरणशास्त्राणां यच्च यावच्च संस्कृतं न प्राकाश्यं लभते, न्यूनाधिकसंख्याव्यवच्छेद-
पुरस्सरं साधुत्वाभिव्यक्तिश्च न भवतीति वयमनुभवामः । तथैव सम्पूर्णाया राजनीते
र्यच्च यावच्च प्राकाश्यं सर्ववाङ्मयं विना न सम्भवतीति किमु वक्तव्यम् ? अतो नीति-
लक्षणे आगमप्रमाणमावश्यकमिति सिद्धान्तितम् जयमङ्गलाकृता ।
 
"न तत् पदं न तद् वाक्यं न सा विद्या न सा कला ।"
जायते यन्न काव्याङ्गमहो ! भारो महान् कवेः ॥
 
इति साहित्यमीमांसायाम्--
 
"विद्याः समस्ता यस्याङ्गमहो ! भारो महान् कवेः", इत्यग्निपुराणे च
स्मरणात् प्रोक्तस्य शक्तिपदार्थस्य लाभाय दर्शनश्रवणादिभिः सर्वपदार्थस्वभाव-
परिच्छेदानुभूतलोकयात्रत्वमनन्तरेषु व्यवहितेषु वा जन्मसु यस्य तस्यैव तादृश-
वासनोद्बोध इति, एकविंशतितमेवाक्यार्थः पर्यवसितो भवति, तस्मादर्थशास्त्रा-
 
------
 
अशुद्धम्
 
[^१]. नीतिः । ( पा॰ ) ।
[^२]. विद्भिरुदासी ( पा॰ ) ।
[^३]. पि स्वभाव ( पा॰ ) ।