2024-03-27 05:54:37 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
जयमङ्गलाक्रोडपत्रम्
२--शास्त्रेणैकान्तिको नयः ।
३--शास्त्रे सत्यपि नावश्यमिति सर्वेष्वदः समम् ।
इति त्रिखण्डात्मकेन नवमेन वाक्येन भविष्यतीति शङ्काग्रन्थस्य सर्वस्यापि
शङ्कात्रय एव तात्पर्यमित्यत्र न विवादः ।
तत्र म्लेच्छराजनीतिप्रचारवत्यधुनातनसमये नीतिशक्तिं विनापि जीवनं
भविष्यतीति शङ्काया अनुत्थितिरेव । अतो दशमैकादशवाक्याभ्यां यदुक्तं जयमङ्गला-
कृता तद्विषये वक्तव्यस्य नास्त्यावश्यकतेति प्रथमः पूर्वपक्षोऽनुत्थानपराहतः । द्वादश-
वाक्यमवलम्ब्य च शिष्टान्येकविंशतिवाक्यान्यालोचनीयतामर्हन्ति ।
"अनधीतशास्त्राणामपि यत्कदाचिद्धिताहितप्राप्तिवर्जनं तदपि "यादृच्छिकीं नीति-
मेवासाद्य भवती"तीत्यतइदं वाक्यं यादृच्छिकपदघटितं, "कदाचिद्वासनानुगमाच्च,
अनन्तरेषु व्यवहितेषु च जन्मसु सर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्राणां यदृच्छो-
त्पन्नवासनाप्रबोधानां हिताहितवस्तुन्यभिलाषेतरौ भवतः" इत्येकविंशतितमेन
वाक्येन स्फुटीक्रियते ।
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा ।
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ॥ सु॰ शा॰ १-११
इति सुश्रुतग्रन्थोपरि व्याख्याकर्त्रा डल्हणेन--
"यदृच्छा <flag>पुन क्षितः</flag> आकस्मिकपदार्थाविर्भावः स्वभावस्तावत्सत्त्वरजस्तमसां
तद्विकाराणां पृथिव्यादिमहाभूतानां च परिणामस्य तादृशो विशेषः" इति व्याख्यानात्
यदृच्छास्वभावशब्दार्थौ स्फुटीभवतः । एवं चालक्षिताकस्मिकपदार्थाविर्भावोद्बुद्ध-
वासनानामित्यर्थो "यदृच्छोत्पन्नवासनाप्रबोधाना"मित्यादिवाक्यांशस्य भवति । वक्ष्य-
माणगोकुलनाथोपाध्यायोक्त्यनुसारेण संस्कारविशेषरूपायाः शक्तेः पुरस्करणेन
जायमाना नीतिर्यदृच्छोत्पन्नवासनाप्रबोधप्रयुक्ता षष्ठे वाक्ये यादृच्छिकीपदेनोच्यते ।
तथा - विधाप्युद्बुद्धा वासना पूर्वस्मिन् कस्मिन्नपि जन्मनि शास्त्राधीनसर्वपदार्थस्व-
भावपरिच्छेदानुभूतलोकयात्राणामेव भवतीति परम्परया शास्त्राधीनत्वमेव तस्या
व्यवस्थाप्यते । युक्तश्चायमर्थः प्रतिभाति । विंशे वाक्ये हि अन्वयव्यतिरेकैकशरणौ
लब्धस्य ज्ञानस्य वाध्यमानत्वमुपपाद्याधीतशास्त्राणामेव यच्च यावच्च प्राकाश्यं लभते
इत्युपपादितम्। तदेतत् व्याकरणशास्त्राध्ययनेनैव सम्पूर्णसंस्कृतभाषाज्ञानं संस्कृत-
त्वादिजात्यभिव्यक्तिश्च भवतीति दृष्टान्तेनास्माभिरप्यनुभूयते । किञ्च नव्यप्रणाल्या
तत्तज्जन्मनि जायमानवासनोद्बोधस्य एतज्जन्मीयान्वयव्यतिरेकप्रयोगमूलकत्वे-
ऽप्युपगम्यमाने कीरदष्टं फलं मधुरमेव भवतीति सर्वसम्मतः सिद्धान्तो भज्येत ।
इदमेव तत्त्वं "शास्त्रेणैकान्तिको नयः इति पद्यांशेनाविष्कृतं ग्रन्थकृता ।
शास्त्रानभ्युपगमेतु अलक्षितनिमित्तवासनोद्बोधो वा शरणीकरणीयः, अन्वयव्यतिरे-