2024-03-27 05:27:20 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
जयमङ्गला
अत्र केचिदाहुः - धर्मस्यअलौकिकत्वात्तदभिधायकं[^१] शास्त्रम्, अर्थस्योपाय-
पूर्वकत्वाद् उपायस्य च शास्त्रपूर्वकत्वाद्[^२] युक्तं तदर्थं[^३] वार्ताशास्त्रम् । नीति-
शास्त्रं तु न युक्तम्, यतो नीतिशास्त्रमनर्थकमिति । प्रत्यक्षानुमानागमप्रमाण-
देशकालशक्तिपुरस्सरार्थसाधन विनियोगलक्षणा[^४] क्रिया नीतिः, सा प्रेक्षावताम्[^५] ।
दृश्यते नीतिं विना पशूनां तत्कल्पानाञ्च बालानाम् आत्महिततृणस्तन्याहार-
प्राप्तिरनिमित्ता[^६] । शीतोष्णवात वर्षादिपरिहारश्च फलम् । तथाऽनधीतशास्त्राणा-
जयमङ्गलाक्रोडपत्रम्
मभ्यर्हितम् । तच्चिन्तनाभावे त्रिवर्गसमृद्धिलोपः स्यात् इति दर्शयितुमाह--'अत्र
केचिदाहुरिति' ।
अयं दुर्बोधत्वादयं ग्रन्थो व्याख्यायते ।
अत्र हि आदिमैः सप्तभिर्वाक्यैः नीतिशास्त्रस्य वैयर्थ्यंमाशङ्क्योपरित-
नैर्वाक्यैर्भक्तिश्रद्धापूर्वकं तस्यादरणीयत्वं व्यवस्थाप्यते । आशङ्काग्रन्थे सप्तवाक्यात्मके,
धर्मशास्त्राणां अर्थशास्त्रान्तर्गतवार्ताशास्त्राणां चावश्यकत्वं प्रथमवाक्येनैव निर्धार्य
स्वीकृतम् ।
उपरितनैः षड्भिस्तत्रत्यैर्वाक्यैर्नीतिशास्त्रस्य निष्प्रयोजनत्वमुपक्षिप्यते इति
स्पष्टमेव। अतो निश्चयेनैतद्वक्तुं शक्यते, यल्लौकिकेष्वेवार्थेषु शब्दात्मकस्यास्य
शास्त्रस्य समाधानग्रन्थस्थैः पञ्चविंशतिवाक्यैरावश्यकत्वं स्थिरीकृतम् ।
एतेषु वाक्येषु प्रथमवाक्येन धर्मशास्त्रवार्ताशास्त्रयोरावश्यकत्वे स्थिरीकृते
नीतिशास्त्रस्यानर्थक्यशङ्कनं द्वितीयवाक्यस्य विषयः । उपरितनैः पञ्चभिर्वाक्यै-
र्निष्प्रयोजनत्वमेव स्फुटीक्रियते । नीतेः शास्त्रसम्मतं स्वरूपमनिर्धार्य तत्र निष्प्रयोजन-
तायाः साधयितुमशक्यत्वात् तृतीयवाक्येन प्रथमतस्तत्स्वरूपमनूदितम् । चतुर्थ-
पञ्चमाभ्यां वाक्याभ्यामेवंलक्षणीयाया नीतेरनावश्यकता । षष्ठेन वाक्येन नीते-
रावश्यकत्वेऽपि म्लेच्छदृष्टान्तेन तत्र शास्त्रस्यानावश्यकत्वम् । सप्तमेन तु शास्त्र-
सत्त्वेऽपि तस्य वैयर्थ्यंमाशङ्कितम् । अथास्य शङ्काग्रन्थस्य यथाक्रममुत्तरम्--
१--नीतेर्विना फलं नास्ति ।
------
अशुद्धम्
[^१]. त्वादमिघायकं शास्त्रम् ( पा॰ ) ।
[^२]. पूर्वकत्वाद् तद् युक्तम् ( पा॰ ) ।
[^३]. तदर्थवा ( पा॰ ) ।
[^४]. पुरःसरार्थवि ( पा॰ ) ।
[^५]. प्रेक्षावताम् दृश्यते ( पा॰ ) ।
[^६]. प्राप्तिरभिहिता ( पा॰ ) ।