This page has been fully proofread once and needs a second look.

जयमङ्गलाक्रोडपत्रम्
 
समस्तानां अङ्गानां अप्राप्त्या उद्देश्यस्य सर्वथा विलोपे सम्भवति निषिद्धस्यापि
ग्रहणं क्रियते । तदिदमुभयमपि अधोनिर्दिष्टेन विवेचनेन स्फुटीभविष्यति । तत्र
नियमातिक्रमोदाहरणं - यथा - व्रीहीनवहन्तीति शास्त्रेण अवघाताभावाभावरूपो
नियमः उक्तः । अनुष्ठितेपि तस्मिन् यदि एको वा द्वौ वा व्रीही सतुषौ अवशिष्टौ ।
तदानीम् अवशिष्टस्य तस्य अवयविभावरक्षण<flag>पु</flag>रस्सरं वितुषीकरणं अवघाते-
नाशक्यं तदा नखविदलनमपि कर्तुं मीमांसकैरनुमतम् । अथ निषिद्धोदाहरणम्
उच्यते । तथाहि--
 
"अयज्ञिया वै माषा" इत्युक्त्या हविर्द्रव्येषु माषाः निषिद्धाः । व्रीहयो यवा
वा ग्राह्यत्वेनोक्ताः । तथापि यस्मिन् देशे यस्मिन् समये वा व्रीहियवानामनुपलब्धिः
तत्र अनिषिद्धेन माषातिरिक्तेन धान्येन हूयते । यदि कदाचित् माषातिरिक्तं
धान्यमपि सर्वथा अनुपलब्धं भवति, होमश्च अवश्यं कर्तव्यः, स तु विलोपयितुं न
शयक्ते । एवं स्थिते निषिद्धैरपि माषैः होमः कर्तव्यः एव भवति । अग्निहोत्रस्य
विलोपस्तु न भवति[^१] ।
 
एवं चात्र उभयत्रापि स्थले मीमांसकैर्न्यायमाश्रित्य योऽयं निर्णयः कृतः स
शास्त्रसम्मतः वेदमूलकश्चेति अस्ति वैदिकसमाचारः । तथैव नीतिशास्त्रविषयेऽपि
बोध्यम् । अस्य हि मुख्यमुद्देश्यम् आत्मनि विश्वासं दृढतरं चिरस्थायिनमुत्पाद्य
लोकानुरागपुरस्सरं पृथिव्या लाभः पालनं च निर्दिष्टम् । तत्र पूर्वाचार्यैर्निर्दिष्टाः ये
विधयस्ते दृष्टार्थकत्वात् प्रायः नियमविधित्वे पर्यवसिताः । तेषां स्वीकरणे क्वचित्
व्रीहीणां तण्डुलस्य अवघाते कृते तद् - विनाशवत् यदि प्रजापालनात्मकोद्देश्यस्य
विनाशः प्रसक्तो भवति तर्हि स वास्तविको न वेति सूक्ष्मतया परिज्ञाय एकाग्रभूमि-
कायां स्थितेन उपरिबुद्धिना ऐश्वर्यादिसम्पन्नेन पूर्वाचार्योदाहृतनियमानतिक्रम्यापि
अन्यद् यदि विहितं तदपि प्रजापालनार्थं प्रवृत्तानामाचार्याणां उद्देश्यसम्मतत्वाद्वेद-
मूलकमेव इति युक्तमुत्पश्यामः । तदुक्तम् "यत् किञ्चिद् अनूचानः अभ्यूहति <flag>आषं</flag>
तद्भवति" इति ।
 
एवंरीत्या कौटिल्येनोक्तः स्वधीसम्मतोऽप्यर्थः शब्दप्रमाणमूलभूतः सन् प्रत्यक्षा-
नुमानप्रमितः कथं भवतीत्यपि नीतिलक्षणसङ्गमनाय चिन्तनीयमेव । तत्तु तत्र तत्र
प्रसङ्गे स्वयं मूलकृतैवव्यवस्थापयिष्यते । इत्यलमतिविस्तरेण ।
 
विषयप्रयोजनसम्बन्धाधिकारिणः मूलस्थेन "पृथिव्या लाभे पालने चे"ति
वाक्येन निरूपिता भवन्तीति विशदीकृत्य, नीतिशास्त्रस्य अध्ययनीयत्वम् अत्यन्त-
 
------
 
[^१]. अयज्ञिया इत्यत्राहर्थिकप्रत्ययेन साधनत्वमात्रनिषेधात् विशेषविहितातिरिक्तस्थले
सर्वत्रैव माषादिप्रतिषेधप्रतीतेर्न प्रतिनिधेयाः । द्रव्यसामान्याभावे तु ग्राह्या एवेति ध्येयम् । अत्र
च लक्षणया यज्ञोद्देश्येन माषनिषेधविधानात् नैकप्रसरताभङ्गः । भा॰ दी॰ अ॰ ६ पा॰ ३ ।