2024-03-26 15:36:23 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
जयमङ्गला
क्रियते । तद्द्वारा निर्णीतोऽर्थः शास्त्रमूलको न वेति प्रश्नमादाय न विद्वांसो विप्रति-
पद्यन्ते । प्रत्युत "युक्तिहीनविचारे तु धर्महानिः प्रजायते, इत्येव तैः सिद्धान्तितम्[^१] ।
नीतिशास्त्रविषयोऽपि मीमांसादिसमस्तशास्त्रदृष्ट्या यदि विचार्यते तर्हि
कौटिल्यवचनस्याऽपि नीतिशास्त्रमहावाक्यार्थनिर्णये उपयोगित्वात् तत्र वेदमूलकत्वं
शास्त्रसम्मतत्वं च वक्तुं युज्यते । तथाहि--एतद्विषयनिरूपणात्पू<flag>र्वं</flag> शास्त्रं कतिविधं
भवति इति अवश्यं ज्ञातव्यमस्ति । अतः आदौ तद्भेदो निरूप्यते । शास्त्रं द्विविधं
भवति । अदृष्टार्थकं दृष्टार्थकं च । तत्र अदृष्टार्थकं शास्त्रं 'यजेत', 'उपासीत'
'अग्निहोत्रं जुहोती'त्यादिकम् । ईदृग्विधेषु विधिषु धात्वर्थः अदृष्टोत्पत्यर्थं अज्ञात-
त्वात् विधीयते । नास्त्यत्र न्यायापेक्षा । दृष्टार्थकं च शास्त्रं 'व्रीहीन् अवहन्ति',
इत्यादिकम्। एवंविधेषु विधिषु अवघातादि र्धात्वर्थः । वितुषीकरणरूपेष्टसाधनत्वेन
न अज्ञातः इति स न विधीयते । किन्तु "एतादृशस्थलेषु स्वाध्यायोऽध्येतव्यः" इति
<flag>वचनवलेन</flag> प्रयोजनवदर्थज्ञानसाधनीभूताध्ययनभाव्यकत्वेन ज्ञातानामुक्तविधीनां
निष्प्रयोजनत्वपरिहाराय नियमादिविधित्वं यथायोग्यं मीमांसान्यायाधीनगौरवलाघव-
मर्यादया बोध्यं भवति । नह्येतत्कल्पने वेदामूलकत्वं शास्त्रासम्मतत्वं वा कैश्चित्
स्वीक्रियते । स एव न्यायः अर्थशास्त्रव्यवहारशास्त्रादिषु दृष्टार्थकेषु समन्वितो
भवति । एतानि सर्वाणि शास्त्राणि यत् उद्दिश्य प्रवृत्तानि प्रायः तानि दृष्टफलान्येव ।
अतः दृष्टमुद्दिश्य प्रवृत्तानि इमानि शास्त्राणि प्रायः नियमविध्यादिपर्यवसायीन्येव
भवन्ति । क्वचित् सति सम्भवे तेषु अपूर्वविधित्वं कल्पितमिति अन्यदेतत् । अत एव
दृष्टार्थमुद्दिश्य ऋषिभिः प्रोक्तेषु अर्थव्यवहार-शास्त्रादिषु वक्तृतात्पर्यानुरोधेन
वाक्यभेदादीनां दोषत्वं न स्वीक्रियते । तदेतत्सर्वं प्रपञ्चितं व्यवहारप्रकाशे
द्रष्टव्यम्[^१] ।
इत्थञ्च नियमविधयः दृष्टार्थकविधिस्थले भवन्तीति स्वीकृतम् । नियमोबलात्
इतरव्यावृत्तिरपि अर्थादेव सिद्धा । किञ्च व्रीहीन् अवहन्तीत्या<flag>दी</flag> तण्डुलस्य निष्पत्तये
वितुषीकरणोद्देश्येन प्रवृत्तोऽयं विधिः इदं कार्यमवघातेनैव कर्तव्यमिति नियमे पर्य-
वस्यति तथा नियमातिक्रमे प्रत्यवायोऽपि भवति इत्यपि च बोधयति । परन्तु उद्दे-
श्यस्य हानौ नियमं परित्ज्य नखविदलनेनापि व्रीहीणां वितुषीकरणं क्रियते । क्वचित्
------
[^१]. घर्में प्रमीयमाणे तु वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति । श्लो॰ वा॰
[^२]. ( पृ॰ १३ ) तस्मादयमत्र निष्कर्षः । उत्सर्गापवादादिमूलभूतान्वयव्यतिरेकादि-
न्यायमूलकता यत्र सम्भवति तादृशव्यवहारशास्त्रस्य सर्वस्य न वेदमूलकता कल्प्यते । यदंशे
तदसम्भवस्तत्रादृष्टार्थकतया वेद एव मूलं कल्प्यते । वास्तुसामुद्रिकादिविधिषु ज्योतिःशास्त्रा-
युर्वेदप्रामाण्यव्यवस्थापनप्रसङ्गे आचार्यैः स्मृत्यधिकरणे व्यक्तमेव एतत्प्रपञ्चितम् ।