This page has been fully proofread once and needs a second look.

॥ जयमङ्गलाक्रोडपत्रम् ॥
 
एवंरीत्या अतिचिरन्तनकालात् ह्रासे प्रवृत्तेऽपि भगवदनुकम्पया एकाग्रभूमि-
कासम्पन्नेन गुरुभक्तेन चाणक्येन अर्थशास्त्रमहोदधिं निर्मथ्य अमृतवत् संक्षिप्तमिद-
मर्थशास्त्रं प्रदत्तं महते उपकाराय अस्मासु समभूत् । यस्य तु सात्त्विकी प्रज्ञा नास्ति
न वा वेदानुगामिनी, न च वेदाध्ययनेन धारणावती, तेन तु अपारं शास्त्रं निर्मथ्य
वास्तविकं सप्रमाणममृतमुद्धृत्य मार्गः प्रदर्शयितुम् न शक्यः इति तु निश्चितमेव
( पृ॰ ३४ ) टिप्पण्युद्धृतमहाभाष्यप्रामाण्यात् । तस्य निष्कर्षः । सन्ति केचन शिष्टाः
ये जन्मत एव यथाशास्त्रं विनाऽप्यधीतिं साधुशब्दं प्रयुञ्जते । तेषामात्मसन्तोषः
व्याकरणेन असाधितेषु प्रयोगेषु साधुत्वस्य निर्णायको भवति इति । अतथाविधैस्तु
यथेच्छं व्यवहृतः प्रयोगः साधुत्वपरिचायको न भवति इत्येवं न्यायः अत्राऽपि
अनुसर्तव्यः[^१] ।
 
अयमेव न्यायः तथाविधैः प्रणीतेषु अन्यसमस्तशास्त्रेष्वपि बोध्यः ।
 
कौटिल्यमतस्य शास्त्रसम्मतत्वम्
 
क्वचित् कौटिल्येन पूर्वाचार्यमतं प्रतिषिध्य उपन्यस्ते मते शास्त्रसम्मतत्वं
वेदमूलकत्वञ्च नाऽस्ति इत्यतोऽस्य मतस्य शब्दप्रमाणकत्वं कथं भवितुमर्हति इत्यय-
मंशः अवश्यं विचारणीयतामर्हति । तत्रोच्यते ।
 
सर्वोऽपि विषयः शास्त्रेण कण्ठतः उक्तः इति नास्ति स्थितिः । अतएव
शास्त्राधीनमहावाक्यतात्पर्यनिर्णयार्थं मीमांसापद्धत्या न्यायानामुपयोगः शास्त्रविद्भिः
 
------
 
[^१]. महाभाष्ये पृषोदरादि॰ ६-३-३ पृ॰ २५७
 
"पृषोदरादीनीत्युच्यते । कानि पृषोदरादीनि । पृषोदरप्रकाराणि । कानि पुनः
पृषोदरप्रकाराणि । येषु लोपागमवर्णविकाराः श्रूयन्ते न चोच्यन्ते । अथ यथेति किमिदम् ।
प्रकारवचने थाल् । अथ किमिदमुपदिष्टानीति उच्चारितानि । कुत एतत् । दिशिरुच्चारणक्रियः ।
उच्चार्य हि वर्णानाह उपदिष्टा इमे वर्णा इति । कैः पुनरुपदिष्टाः । शिष्टैः । के पुनः शिष्टाः ।
वैयाकरणाः । कुत एतत् । शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकं च शास्त्रम् । तदितरेतराश्रयं
भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हि निवासतश्चाचारतश्च । स च आचार
<flag>आर्यावर्त</flag> एव । कः पुनः आर्यावर्तः । प्रागादर्शात्प्रत्यक्‌कालकवनात् । दक्षिणेन हिमवन्तमुत्तरेण
पारियात्रमेतस्मिन्नार्यावर्ते निवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः
किञ्चिदन्तरेण कस्याश्चिद्‌विद्यायाः पारङ्गताः तत्र भवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु
प्रमाणम् । किमष्टाध्याय्या क्रियते । शिष्टपरिज्ञानार्थाऽष्टाध्यायी । कथं पुनरष्टाध्याय्या शिष्टाः
शक्या विज्ञातुम् । अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानं येऽत्र विहिताः शब्दाः तान्
प्रयुञ्जानं स पश्यति । नूनमस्य देवानुग्रहः । स्वभावो वा योयं न चाष्टाध्यायीमधीते । ये
चास्यां विहिताः शब्दाः ताँश्च प्रयुङ्क्ते । नूनमयमन्यान्यपि जानातीति एवमेषा शिष्ट-
ज्ञानार्थाऽष्टाध्यायीति" ।