2024-03-26 11:59:06 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
॥ जयमङ्गला ॥
सम्बन्धस्तु प्रयोजनस्य शास्त्रस्य प्रतिपाद्यप्रतिपादकलक्षणः, स च तदन्तर्गत-
त्वात् पृथङ्नोक्तः । सामान्यन्तु प्रयोजनमस्य अस्त्येव ।
–––
ततो ऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् श्लो० २९ पूर्वार्ध
ततस्तां भगवान् नीतिं पूर्वं जग्राह शङ्करः ।
ब्रह्मरूपो विशालाक्षः शिवःस्थाणुरुमापतिः । ८० ।
प्रजानामायुषो ह्रासं विज्ञाय भगवान् शिवः ।
संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् । ८१ ।
वैशालाक्षमितिप्रोक्तं तदिन्द्रः प्रत्यपद्यत ।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः । ८२ ।
भगवानपि <flag>तच्छाशस्त्र</flag> संचिक्षेप पुरन्दरः ।
सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् । ८३ ।
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः ।
सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ।
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञः योगाचार्यो महायशाः । ८५ ।
एवं लोकानुरोधेन <flag>शास्त्रमेतन्महर्षिभिः</flag> ।
संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च । इति ।
उदयनाचार्या अपि ह्रासकारणं <flag>कुसुमाञ्जली</flag> व्यवृण्वन् ।
तद्यथा "जन्म-संस्कार- विद्यादेः शक्तेः स्वाध्याय - कर्मणोः ।
ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ।
न्याय कु० द्वि० स्त० श्लो० ३
सम्प्रदायस्य वेदादिसम्प्रदायस्य ह्रासोऽनुमीयतां कुतः जन्मादेर्ह्रासदर्शनात् ।
प्रयोगश्च वेदादिसम्प्रदायोऽयं अत्यन्तमुच्छिद्यते ह्रसमानत्वात् प्रदीपवत् । स्वरूपा-
सिद्ध्युद्धारायाह जन्मेति । पूर्वं मानस्यः प्रजास्ततः पुत्रमात्रार्थिताप्रयुक्तमैथुनजाः, सम्प्रति
सम्भोगकामिप्रवृत्यावर्जितजन्मान इति जन्मह्रासः । पूर्वं <flag>चरुप्रभृतिषु</flag> संस्कारः, ततो गर्भे, ततो
जननानन्तरम् इदानीं कथञ्चिदिति संस्कारहासः । पूर्वं सहस्रशाखस्य चतुर्वेदस्याध्ययनं तत
एकस्याः शाखाया इत्यादिक्रमेण विद्याह्रासः ।
विद्यादेरित्यादिना वृत्तिधर्मादिसंग्रहः । पूर्वमुञ्छशिलवृत्तयस्ततोऽयाचितवृत्तयस्ततः
कृष्यादिवृत्तयस्ततः सेवावृत्तय इति वृत्तिह्रासः । पूर्वं तपोज्ञान-यज्ञदानात्मकश्चतुष्पाद् धर्मः
ततः त्रेतादौ एकैकह्रासः । कलौ च विसंष्ठुलः स्खलद्दानैकपादिति धर्मह्रासः । पूर्वं यज्ञशेषभुज-
स्ततोऽतिथिशेषभुजस्ततः स्वार्थसाधितभुजस्ततो भृत्यादिसहभुज इत्यादि धर्मह्रासः । स्वाध्यायस्या-
ध्ययनस्य कर्मणो यागादेः शक्तेः सामर्थ्यस्य ह्रासात् अध्ययनशक्तेः कारणस्य ह्रासात् विद्या-
शक्तेः कार्यस्य ह्रास इति पृथङ् निर्देशः इति । शेषं तट्टीकायाम् द्रष्टव्यम् ।