2024-02-06 05:29:32 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
॥ जयमङ्गला ॥
अर्थः¹, प्रधानञ्च मनुष्यवती भूमिः, सर्वकर्मणां योनित्वात् । वक्ष्यति च तन्त्रयुक्तौ—
"मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः । तस्या मनुष्यवत्या भूमेः पृथिव्या
लाभपालनोपायभूतं शास्त्रमर्थशास्त्रमिति" ( अधि॰ १५. अध्या॰ १ ) । वृत्तिरर्थ इति
वर्तनहेतुत्वात् । पूर्वाचार्यैरिति । पूर्वग्रहणं प्रकर्षार्थत्वाद् बृहस्पत्याद्युपसंग्रहार्थम् ।
आचार्यैरिति, न यैः कैश्चित् । प्रस्थापितानि प्रवर्तितानि । प्रायश इति प्रतिषेधार्थम् ।
( क्वचित् स्वीयमतप्रदर्शनार्थम्, नेति कौटिल्य इति ) । अनेन सामान्येनार्थ-
शास्त्रस्य प्रयोजनमुक्तम् । तेषु सत्सु पुनरारम्भोऽनर्थक इति चेदाह-तानीति ।
संहत्य ततः स्तोकं स्तोकं परित्यज्य । इयांस्तु विशेषः । अत्र यत् केषाञ्चिन्मत-
मनुमतं यथा "सर्वमुपपन्नमिति कौटिल्यः" केषाञ्चिन्नानुमतं यथा "नेति
कौटिल्यः" इति । एकमिति अनपेक्षितसहायान्तरम् । इदमिति बुद्धिस्थमाह ।
पुनरर्थशास्त्रग्रहणं प्रसङ्गतो धर्माद्युपदेशेऽपि अर्थोपदेश: प्रधानमिति प्रकाशनार्थम्
"अर्थमूलौ हि धर्मकामौ" ( अधि॰ १, अध्या॰ ७ ) इति । कृतमिति शास्त्रपरि-
समाप्तिमाशंसते । "वृष्टश्च देवो निष्पन्नाश्शालयः" इति । यथा प्रपञ्चित ( विचित्र ? )
त्रिवर्गाणि पूर्वाचार्यप्रणीतशास्त्राणि संक्षिप्य अल्पेन ग्रन्थेन यदर्थकथनं तदस्य
प्रयोजनम् । ऐदंयुगीनानां पूर्वशास्त्राध्ययनासामर्थ्यात् तथा चोक्तम्—
"ब्रह्माऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम् ।
तच्छङ्करेण शक्रेण गुरुणा भार्गवेण च ॥
सङ्क्षिप्तं मनुना² चैव बहुभिश्च तपोधनैः ।
प्रजानामायुषो ह्रासं विज्ञाय च महात्मना ॥
संक्षिप्तं विष्णुगुप्तेन नृपाणामर्थसिद्धये ।" इति ।
॥ जयमङ्गलाक्रोडपत्रम् ॥
शास्त्रमपि लाभपालनोपायप्रतिपादनात् अर्थशास्त्रान्नान्यत् इति दर्शयितुमाह—
सत्यमिति ।
प्रवर्तितानीति-बहुत्वोक्त्या कदाचित् क्वचित् आत्मीयदर्शनानां प्रतिपाद-
नार्थमिति गणपतिशास्त्रिभिः व्याख्यातम् ।
प्रकाशनार्थमिति—तेन यत्र कौटिल्येन न निषिद्धं न वा स्वमतमिति उक्तम्
तत्सर्वं पूर्वाचार्यसम्मतमेव ज्ञेयम् । विशेषविधिनिषेधयोः शेषविधिनिषेधाभ्यनुज्ञाकल्प-
कत्वमितिन्यायात् । प्रजानामायुष इति ।
ह्रासः यः अत्र उक्तः तस्य मूलं महाभारते ज्ञेयम् 𑁍 ।
–––
अशुद्धम्
१. प्रधानं । अर्थः । ( पा॰ )
२. संक्षिप्तं मनसा । ( पा॰ )
𑁍 तद्यथा शा॰ प॰ रा॰ म॰ भा॰ अ॰ ५९-