This page has been fully proofread once and needs a second look.

शुक्लपक्षे कला आददानः शशाङ्क इव महीपतिश्चरं वर्धते नान्यथा । लोकतन्त्रं च संवासिमतप्राप्तिरूपमेव । लोकसम्मतत्वरूपलोकमतलाभश्च सत्वारोग्यशीलबलास्तब्धत्वाचापल्यवतामेव चिरस्थायी भवति इत्याग्रे स्फुटीभविष्यति । उक्तेषु सत्वादिगुणेषु सत्वमेव प्रधानतममभ्यर्हितमेतस्मिन् शास्त्रे तस्यैव राज्यफलहेतुत्वात् ॥
 
सत्त्वं धृतिः
 
तत्र सत्वस्वरूपं "व्यसने अभ्युदये च यदविकारकर"मिति कामन्दकीयव्याख्यायामुक्तं, धृतिस्वरूपविवेचने "अप्राप्तातीतनष्टानामलाभेऽनभिशोचनमिति" भावप्रकाशने, "लोभशोकभयादिजनितोपप्लवनिवारणकारिणीभूतश्चित्तवृत्तिविशेषोधृति"रिति रसगङ्गाधरे चोक्तम् । तत्त्रितयपर्यालोचनायां सत्वं धृतिभावरूपमिति सिद्ध्यति । धृतिः किंस्वरूपेत्यालोच्यमाने ---
 
"विवेकः श्रुतिसम्पत्तिर्गुरुभक्तिस्तपस्विता ।
एते विषयभावेन करणत्वेन च स्थिताः ॥
इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः ।
व्रीडा करणभावेन विभावा यत्र सम्मताः ॥
प्राप्तभोग्योपभोगस्य त्वाप्राप्तातीतभोगयोः ।
जीर्णे नष्टे चाविषादो नानुशोचनमित्यपि ॥
अनुभावद्वयं यत्र धृतिं तां ब्रुवते बुधाः ।"
 
इति सङ्गीतरत्नाकरोक्तदिशा विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्वितैतच्चतुष्टयोद्देश्येनैतच्चतुष्टयं करिष्य इति सङ्कल्पो धृतिरित्युक्तम् ॥
 
कौटिल्ये धृतिः
 
अर्थशास्त्रस्य प्रस्तुतस्यावलोकनेनैव धृत्यन्तर्गतः ग्रन्थकर्तुर्विवेकः स्फुटीभवति, तत्र तत्राक्षेपसमाधानानां बहुलतरमुपलब्धेः ।
 
श्रुतिसम्पत्ति"र्योऽधीतवान् सुचतुरश्चतुरोप्येकवेदवत्" इति कामन्दकवचनतः स्फुटा ।
 
"कुलशतमप्रतिग्राहकाणामिति लोकप्रवादः" इति जयमङ्गलोक्तेः अभिचाराद्यौपनिषदिकप्रकरणस्य सफलानुष्ठातृत्वात् तस्य तपस्वित्वं निर्विवादम् । मङ्गलग्रन्थेनानेन तस्य गुरुभक्तिरपि धृतिस्वरूपघटिका स्फुतीभवति ।
 
टीका प्रयोजनम्
 
यद्यप्यर्थशास्त्रे दुरूहाणां पदानामर्थनिर्ण्यः परम्परानुसारेण जयमङ्गलाभिक्षुप्रभमति-प्रतिपदपञ्चिका-नयचन्द्रिका-नीतिनिर्नीतिप्रभृतिटीकासु कृत एवेति नूतनस्यास्य टीकाग्रन्थस्यानावश्यकत्वं प्रतिभायात् । तथापि टीकाग्रन्थेषु अवश्यं कर्तव्येषु
 
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥