This page has been fully proofread once and needs a second look.

॥ जयमङ्गला ॥
 
यावन्तीति । यावत्प्रमाणानि साकल्यार्थं वचनम् । अर्थशास्त्राणीति अर्थो येन
लोको वर्तते तदर्थं शास्त्रमिति । यद्येवं वार्ताशास्त्रं तत्, न नीतिशास्त्रम् । यस्माद्
भूमिहिरण्यधान्यपशुभाण्डोपस्करादिरर्थः अमुत इति कृत्वा, तेन नीतिशास्त्राणीति
वक्तव्यम् । सत्यम् । प्राधान्यादेवमुक्तम् । यतो भूम्यादीनामर्थानां पूर्वः पूर्वः प्रधानम्
 
॥ जयमङ्गलाक्रोडपत्रम् ॥
 
रक्षण, समस्तदेवताप्रसाद: सुभिक्षादिसमृद्धिश्च भवितुमर्हति । तथा यागनिमित्तेन
धर्मभावनाया वेदमूलिकाया जागरूकत्वात् तन्मूल: सन्धिश्च स्थिरो भवति । ते
सर्वेषामनुरागपात्रता च नियता । अत एव सन्धयेषु धार्मिकोऽपि एक: विजातीय-
त्वेन सङ्गृहीतः सत्यार्यावित्यादिना [१]
 
सर्वेषां वर्णानामाश्रमाणां तत्तद्वृत्तिजीविकानां च अन्तर्बहिर्वा कुत्रचित् अधि-
कारानुसारेण यत्र उपयोग: वर्तते एवंविधासु यज्ञसंस्थातिरिक्तसंस्थासु स्थायिसन्ध्य-
नुकूलं सम्पत्ते विभज्य दानं भवितुमर्हतीति न वक्तुं शक्यते । सन्धेः स्थिरतार्थम-
पेक्षितस्य सत्वसूचकस्य अपौरुषेयवेदमूलकस्य यज्ञादिकर्मणः अङ्गत्वं कथं भवतीति
“शान्ति का अग्रदूत” – ग्रन्थे सप्रमाणमुपन्यस्तमस्ति । अतोऽत्र पुनस्तन्न विमृश्यते ।
एवञ्च अश्वमेधादौ सम्पत्तेविनियोगे कृते सति अपेक्षितस्य राज्याधारभूतस्य सत्त्वस्य
राज्ञि अभिव्यक्तिर्भवति इति सिद्धम् । अत्राश्वमेध एव न विवक्षितः । किन्तु आदिपदात्
सत्त्वगुणस्य परिचायकादि यद्यत् येषु येषु धर्मेषु अभिव्यज्यते ते ते सर्वे धर्माः सन्धायका
अत्र विवक्षिताः । इदं फलमुपलक्षणम् । अश्वमेधादिधर्मसम्पादनेन अदृष्टद्वारा
सम्भाव्यमानानि उपर्युक्तफलापेक्षया अतिरिक्तफलान्यपि प्रशस्तपादभाष्यादौ
उक्तानि वेदितव्यानि ( प्र ० भा० ) कर्मनिरूपणे ।
 
अर्थपदं व्याहर्तुमाह – अर्थ इति । अर्थशास्त्रनीतिशास्त्रयो-र्भेदमाशङ्क्य नीति-
,
 
३१

---

 
१. सत्यार्थी धार्मिकानार्थी भ्रातृसङ्घातवान् बली ।
 
अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः । नी० सार स० ९
तथा ज्ञानं तपो यज्ञविधिः प्रदानमेते कृतादौ सुकृतावताराः ।
एतैः समाकृष्य जगन्ति धर्म सन्तापयामास बलादधर्मम् ।
 
( धर्मविजयनाटके घ० वि० ना० १ अ० १ श्लो० )
 
२. " योगिनां च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च तथा सर्गकाले
प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्मादृष्टकारितम् । एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्या-
मनुपलभ्यमानकारणमुपकारापकारसमर्थं च भवति तदप्यदृष्टकारितम् यथा सर्गादावणुकर्म,
अग्निवाय्वोरूर्ध्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम् । अभिषिक्तानां मणीनां तस्करं प्रति
गमनम् । अयसोऽयस्कान्ताभिसर्पणं चेति” ।