2022-07-21 16:34:00 by arindamsaha1507
This page has been fully proofread once and needs a second look.
॥ शङ्करायकृता ॥
॥ जयमङ्गला ॥
शास्त्रारम्भं प्रयोजनमाह - पृथिव्या इति । अन्यथा अनुक्तप्रयोजने प्रेक्षावताम्
अप्रवृत्तेः । पृथिव्या इति तत्स्वभावाया विस्तीर्णरूपाया इत्यर्थः । अनेन शास्त्रस्य
महाविषयताम् आह लाभे पालने चेति । लाभनिमित्तं पालननिमितं च "निमित्तात्
कर्मसंयोग’’ ( वा० २. ३. ३६ ) इति सप्तमी | लाभो "नवो भूतपूर्वः पित्र्यश्चेति'
( अधि० १३. अध्या० ५ ) | पालनमपि स्वेभ्यः परेभ्यश्चेति द्विविधम् । विषयसप्तमी -
वा शास्त्रस्य अनन्यत्रभावात् । ननु चोभयोरपि पक्षयोर्वर्धनस्य तीर्थप्रतिपादनस्य
चासंग्रहात् कथं प्रतिपत्तिः । यथा वक्ष्यति- “रक्षितवर्धिनी वृद्धस्य तीर्थप्रतिपादनी च”
( अवि० १. अध्या० ४ ) इति । सत्यम् । किञ्चास्यैव विशेषनिर्देशोऽयम् । रक्षित-
वर्धनमप्यर्जनमेव, तीर्थप्रतिपादनमपि गुणवति पुत्रादौ निक्षेपः, अश्वमेधादौ वा
विनियोगः । तदपि हि रक्षणमेव । तस्मादुभयमपि पालनान्तर्भूतमेव द्रष्टव्यम् ।
॥ जयमङ्गलाक्रोडपत्रम् ॥
निमित्तादिति । वैदिक सिद्धान्तसंरक्षिण्यां निमित्तत्वं ( २५ पृ.) स्फुटीकृतम् । सप्तम्या
अर्थान्तरमाह — विषय इति । शङ्कते नन्विति ।
स्वत्वास्पदीभूतस्य स्वजीवनानन्तरं रक्षणोपायमाह - गुणवतीति। अगुणश्चेत्
पुत्रः धन प्राप्य प्रमादेन अर्थं विनाशयेत् अतः गुणवत्पदोपादानम् | राज्यसंरक्षण-
क्षमः अपरोऽपि कश्चित् पुत्रसदृशः गुणवान् भवितुमर्हति तद्व्यावृत्तये पुत्रपदम् । तेन
पुत्रे आत्मसम्पद्गुणेषु अन्यतमकुलीनत्वलाभोऽपि अधिको गुणो बोध्यः । गुणवत्पुत्राभावे
अश्वमेधादौ सम्पत्तेविनियोगो वरः न तु दुष्टहस्ते इत्याशयेनाह - अश्वमेधादाविति ।
राज्ञः सत्वसूचनम्
सर्वा दिशो विजित्य एकत्र सञ्चितायाः सम्पत्तेः विभाजनं यदि राजा न
करोति तर्हि विद्याकलाप्रभृतीनां राज्यस्थित्युपायेषु मूलभूतानां संरक्षणं न भवेत् ।
तदर्थं सञ्चितायाः सम्पत्तेः <error>र्विभज्य</error> <fix>विभज्य</fix> यज्ञे दानमवश्यं तेन कर्तव्यम् । तच्च सत्त्वसम्पत्तेः
सूचकम् । यद्यपि यज्ञादन्यत्रापि सम्पत्तेनं भवितुमर्हति तथापि यज्ञसस्थैव इदृशी
वर्तते यत्र सर्वासां विद्यानां, कलानां च संरक्षणम्, सर्वेषां सेवा, दानद्वारा समस्तानां
---
वीरमित्रोदये व्यवहारप्रकाशेऽपि -
न चैवं प्रजापालनविधेरभिषिक्तक्षत्रियाधिकारिकत्वादन्येषां तत्र फलाभावेनाप्रवृत्तिः ।
दृष्टद्रव्यादिलाभार्थं कथञ्चित् प्रवृत्तावपि तस्मात् धर्माभावप्रसङ्गः अन्यथादर्शनान्यायप्रदर्शना-
वृत्यादिना प्रत्यवायाद्यभावापत्तिश्चेति वक्तव्यम् । अतो दयाऽहिंसादिसाधारणधर्मान्तर्भावेन
प्रजापालनस्य तेषामपि धर्मजनकत्वात् नृपपदेन तत्संग्रहसंभवाच्च । इति (वी० व्य० पृ० १३)