2022-07-21 13:32:42 by arindamsaha1507
This page has been fully proofread once and needs a second look.
नीत्यनुष्ठाने तदधिकारिणां पुरतः सम्भवन्ति । तन्निवारणोपायाश्चोभयत्रापि
समानाः, इति प्रत्यक्षानुमानयोः उपयोगित्वप्रदर्शनार्थं रसप्रतीतौ प्रतिबन्धक भूता
विघ्नास्तन्निवारणेपायाश्चाभिधीयन्ते । तथाहि-असम्भावना १ - विपरीतभावना २- देश -
कालविशेषावेशः ३-निजसुखादिविवशीभावः ४-अप्रधानता ५ सन्दिग्धता ६-परिमित
प्रमातृता ७- चेति सप्त विघ्नाः साहित्यशास्त्र अभिनवभारत्याम् उपवर्णिताः
अमुकं कर्म अमुकेन अमुकसमये कृतं इत्येतत्स्वरूपे ज्ञाने तेन मम कि प्रयोजन ?
इति ज्ञात्वा तच्चरित्रदर्शनात्सामाजिक औदासीन्यं भजते । तन्निरासाय नाटके
विधिभागः चरित्राभिनयेन ज्ञापयितव्यो भवति । तेन वैधं कर्म अस्माभिरनुष्ठातव्य-
मिति जानान: सामाजिकः नौदासीन्यं ततः स्वीकरोति इति देशकालविशेषावेशः, एवमेव
सर्वसाधारण्येन समयनिर्देशान्निजसुखादिविवशीभावः, साधारणीकरणव्यापारात्
परिमितप्रमातृता, रसस्य प्राधान्यात अप्रधानता, अनुभावादीनां यथावदभिनयात्
अभिव्यज्यमानविषये संदिग्धता चेति पञ्चदोषा अपसार्यन्ते । असम्भावना विपरीत-
भावनयोनिराकरणाय ऐतिहासिकं लौकिकं प्रसिद्धं च नेतृचरित्रं नाटके अभिनीयते ।
अन्यथा अभिनीतं तच्चचरित्रं अलौकिकत्वात् असम्भावितं मन्येरन् नाटकदशिनः ।
तथैव कार्यकारणभावविपरीतं चेत् तच्चरित्रं बाधितमिति ततो विरसीभवन्ति सामा-
जिका: । अतः प्रत्यक्षानुमानाभ्यां मिहैवसिद्धत्वं प्रदर्श्य अभिनीतस्य चरित्रस्य लौ-
किकत्वं संसाध्यते । अर्थात् असम्भावनाविपरीतभावनयोः निरासाय प्रत्यक्षानुमा-
नाभ्यां निर्णीतं यच्चरित्रं लौकिकत्वेन प्रसिद्धं तदेव कविनाऽभिनीयते । एवम् नीति-
शास्त्रेणापि यद्विधीयते परिपालनोपायानुष्ठानार्थं, तत्र यदि असम्भावितत्वं आशङ्कितं
स्यात् तर्हि तन्निरासाय प्रत्यक्षानुमानाभ्यां नीतिविहिते लौकिकत्वं, तथा
पूर्वराजचरितत्वादबाधितत्वं च ज्ञाप्यते इति । एतेन तर्कसचिवस्य इतिहासस्य
प्रामाण्यमपि सिद्धं भवति । अतः नीतिलक्षणे प्रत्यक्षानुमानयोनिवेशः कृतः ।
यद्यपि नीतिशास्त्रात्मकमर्थशास्त्र पृथिव्या लाभपालनार्थं अस्तीति प्राङ्
निर्णीतम् । लाभपालने च राजधर्मः । तथा च निष्प्रयोजनत्वात् अर्थशास्त्रं राज्ञः इतरै-
र्नाध्येयमिति आपाततो भाति, तथापि यस्मिन् समये राजा नीतिशास्त्र पर्यालोचयन्
प्रजा: पालयति तदा इतरे नीतिशास्त्रं मा चिन्तयन्तु । यदा तु तथाविधो राजा नास्ति
तदा इतरै : पालनधर्मो नोपेक्ष्यः । न वा तद्विधायकं नीतिशास्त्रम् उपेक्ष्यतामहति,
पालनधर्मस्य मुख्यत्वात् । तदुक्तम्-
क्षात्रो धर्मोह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः इति ( भारत ) ' [१] ।
---
१. तथा-
दण्डनीतिर्यदा सम्यङ्नेतारमधितिष्ठति ।
तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ९ ॥
आन्वीक्षिकीत्रयीवार्ताः सतीविद्या प्रचक्षते ।
सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ ८ ॥ इति (नी० स० २ ) -