This page has been fully proofread once and needs a second look.

नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः ।
य उद्दध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे | इति ( स० १ श्लो० ६ )
 
नीतिलक्षणम्
 
अस्य स्पष्टीकरणाय नीतिस्वरूपमुच्यते । तत्रोपाध्याय निरपेक्षायाम्-
 
“प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतायां फलसिद्धौ देशकालानुकूल्ये
सति यथासाध्यमुपायसाधनविनियोगलक्षणा क्रिया नीतिः” इति ।
 
जयमङ्गलायां तु — “प्रत्यक्षानुमानागमप्रमाणदेशकालशक्तिपुरस्सरार्थसाधन-
विनियोगलक्षणा क्रिया नीतिः” । अ० १ । १ । इति
 
उभयमत साधारण्येन प्रत्यक्षादिप्रमाणत्रयनिर्णीतेष्टसाधनताककर्मानुष्ठानं
नीतिरिति तदर्थः । जयमङ्गलोक्तशक्तिनिवेशतात्पर्यन्तु तद्व्यख्याने वक्ष्यते ।
 
आगमोपयोगः
 
अत्र नोतिलक्षणे प्रमाणत्रयस्य सार्थक्यं वक्तव्यमस्ति । तत्र अभ्यर्हितत्त्वात् शब्द-
प्रमाणस्य नीतावुपयोगित्वं प्रस्तूयते । तथाहि - प्रत्यक्षानुमानाभ्यां निर्णीतेऽपीष्टसाधनत्वे
कालान्तरे तत् साधनत्वेनाभिमतं तथैव स्यात् । ततः कश्चन दुरपनेयो दोषो वा नोत्पद्येत!
अथवा तस्य अन्यथासिद्धत्वं तत्कार्यं प्रति नास्ति इति सर्वज्ञबुद्धिमन्तरा कस्य बुद्धि-
निर्णेतुं समर्था भवेत् ? यथा आधुनिकेऽपि समये दन्तवैद्यः दन्तानां सूक्ष्मातिसूक्ष्मं
भेदादिविषयं चिन्तयन् अन्यच्चिन्तयितुमवसरं न लभते । न वा स्वीकृतदन्तचिकित्सा-
यामितरावयवेषु दुष्परिणामो न ततः सम्भविष्यतीति वक्तुं स प्रतिभूत्वं स्वीकर्तुं
शक्नोति । तथैव अनुष्ठानात्मकनीतौ दीर्घकालानन्तरं समाजस्य कीदृशी स्थितिर्भ-
विष्यति ? किं कदा भविष्यति ? कस्य कीदृशः परिणाम: ? कति वा विरुद्धसंयोगा हानि-
कराः ? इदं लघु, इदं गुरु, इदं तत्त्वं, इदं नेति निर्णय : केन कर्तुं शक्यः ? सम्भवति च
प्रत्यक्षानुमानाभ्यां कृतोपि निर्णय: ईशसमवेतेन ज्ञानेन विसंवाद्यपि । तत्र
पूर्वोक्तयुक्त्या ईशज्ञानावृत्तिविषयताशून्यत्वरूपं प्रमात्वं वा न भवेत् । सत्येवं ज्ञानप्रभा-
सत्त्वपरिणामिनी नोपलभ्येत । पुरुषबुद्धिप्रसूतेष्वर्थेषु अप्रामाण्यदर्शनेन तत्र सन्दि-
ग्धत्वं दोषबहुलत्वं, आशङ्कार्हत्वं, क्वचिद्यथार्थत्व वा तत्र न भवितुमर्हं स्यात् ? परमे-
श्वरस्तु यमर्थमुपदिशति तत्र कार्यकरत्वस्य नँयत्यात् आनन्दप्रभामिश्रितत्वं नियतं
इति प्रागुक्तम् । अतः तस्य नैयत्ययुक्तस्य राज्यबीजभूतस्य सत्त्वस्य लाभाय शब्द -
प्रमाणं नीतिलक्षणं घटकतयोक्तम् ।
 
प्रत्यक्षानुमानोपयोगः
 
अथ नीतिलक्षणे प्रत्यक्षानुमानोभयोपयोगित्वमुच्यते । विषयोऽयं रसप्रतीतौ
प्रतिबन्धकानां विचारे कृते सति स्फुटः स्यात् । यतः तत्र ये प्रतिबन्धका विघ्नास्त एव