This page has been fully proofread once and needs a second look.

अत: तत्पूर्वभाविनः कौटिल्यस्य समये वैशालाक्षाद्यर्थशास्त्राण्यासन्
उपलब्धानि, इत्यत्र नास्ति विप्रतिपत्तिः ।
 
संहृत्य संक्षिप्य पूर्वग्रन्थानामति विस्तृतत्वात् । ततः इति शेषः । तदुक्तम्-
 
प्रजानामायुषो ह्रासं विज्ञाय च महात्मना ।
संक्षिप्तं विष्णुगुप्तेन नृपाणामर्थसिद्धये । इति -
 
( जयमङ्गला अ० १ । १ )
 
विष्णुगुप्तेन कौटिल्येन ।
 
प्राचीनार्थशास्त्रपरिमाणम्
 
एतत्पूर्वतनग्रन्थानां विस्तार एवं निर्दिष्ट: । तद्यथा ब्राह्मं लक्षाध्यायात्मकम्,
वैशालाक्षं दशसहस्राध्यायात्मकम्, ऐन्द्रं पंचसहस्राध्यायात्मकम् बार्हस्पत्यं त्रिसहस्रा-
ध्यायातमकम्, औशनसं सहस्राध्यायात्मकमिति (३३ पृ.) । इदं तु षट्श्लोकसहस्रात्मकम्।
यद्वक्ष्यति-
 
“शास्त्रसमुद्देशः, पञ्चदशाधिकरणानि, साशीतिप्रकरणानि, सपञ्चाशदध्याय-
शतं, षट्श्लोकसहस्राणि " । इति १ । १
 
अथवा संहृत्य स्तोकं स्तोकं परित्यज्येति जयमंगलायाम् । तेन नास्य ग्रन्थस्य
गतार्थत्वम्। यद्वा संगृह्येति पाठान्तरम् । एतत् पाठे कानिचन विशिष्टस्थलानि
परित्यज्य "यथा नेति कौटिल्य" इत्यादौ ततः अन्यः सर्वोऽव्यंशः पूर्वाचार्य-सङ्गृहीतो
बोध्य इति । प्रायशः इति । आधिक्येन अत्र प्राचीनार्थशास्त्रस्य ग्रहणम् । क्वचित्तु
"शुल्बधातुशास्त्र" ( २ । १२ अ० ) इत्यादौ स्वनिर्मितस्य धातुकौटिलोयस्य संग्रहो
बोध्यते । एकमिति । एतच्छास्त्राध्ययने नास्ति इतरार्थशास्त्राध्ययनापेक्षेति
दर्शयति, अनपेक्षितार्थशास्त्रान्तरसहायमिति यावत् । तदुक्तं जयमङ्गलायाम्-
अनपेक्षितसहायान्तरम् इति । इदं बुद्धिस्थम् । अथवा अयमुद्देशग्रन्थः निर्देशग्रन्था-
नन्तरं निर्मितः स्यात् इति यदि स्वीक्रियते, तर्हि संपूर्ण निर्देशग्रन्थात्मकार्थशास्त्रपरः
इदंशब्दो बोध्यः । अर्थेति । पुनरर्थग्रहणं स्वमते तस्य प्राधान्यप्रदर्शनार्थम् । तेन
क्वचित धर्मनिरूपणमर्थार्थमिति बोध्यम् । शास्त्रम् पञ्चदशाधिकरणसमुदायात्मकम् ।
कृतं मयेति शेषः ।
 
इदमर्थशास्त्रं प्राचीनं वा सर्वमपि प्राधान्येन नीतिशास्त्रमित्युच्यते । तदुक्तं
कामन्दकीये -
 
---
 
मनसा वा नमस्कृत्य धर्मार्थकामभयोपधाशुद्धावञ्चकगृहीतायुधायातयाम विश्वासोत्पन्नासन्न-
परिवृते: इति ।
 
तथा एवं च विशालाक्ष:-
( अ० ३२३ श्लो० व्याख्यानम )
 
वन्यान् वनगतैनित्यं मण्डलस्थांस्तथाविधैः ।
 
चारैरालोच्य सत्कुर्याज्जिगीषुरर्दीर्घदृक् ( आ० ३२८ तमश्लोकव्या० ) ॥ इति ।