2022-07-21 11:52:19 by arindamsaha1507
This page has been fully proofread once and needs a second look.
यावन्तोति । सर्वमपि प्राचीनमर्थशास्त्रं कौटिल्येन अदृष्टं नास्ति ।
अर्थशास्त्राणि ब्राह्मनारदीयवैशालाक्षौशनसबार्हस्पत्यादीनि । अर्थो वृत्तिः, तदर्थं शास्त्रम्
अर्थशास्त्रम्, तानि । पूर्वाचार्यैब्रह्म-नारद-शुक्र-बृहस्पति-भारद्वाज-विशालाक्ष- भीष्म-
पराशर-वातव्याधीन्द्र-प्राचेतस-मनु-गौरशिरो-व्यासादिभिः प्रस्थापितानि प्रणीतानि ।
अत्र प्रमाणं भारते अनुसन्धेयं अग्रे प्रदर्शितम् [१] ।
ननु वैशालाक्षादिप्राचीनार्थशास्त्रं भारतादन्यत्र निबन्धेषु नोद्धृतं एवञ्च
कौटिल्येन तानि दृष्टानि आसन् इत्यत्र विनिगमकं किमिति चेदुच्यते । आधुनिक-
शिष्टपरिगृहीतनिबन्धेषु तद्वचनानामनुपलब्धावपि भगवत्पूज्यपादशङ्कराचार्यानन्तर-
भाविसुरेश्वराचार्यापरपर्यायविश्वरूपाचार्यैः स्वकृतायां मिताक्षराटीकायां बाल-
क्रीडायां ( या० स्मृ० अ० २ | इलो० ३०७-३-८) वैशालाक्षबार्हस्पत्यौशनसवचनानि
उद्धृतानि उपलभ्यन्ते । बृहस्पतिरित्यादिना [२]।
---
१. जयमङ्गलायाम् अर्थशास्त्रे -
ब्रह्माध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम ।
तच्छङ्करेण शक्रेण गुरुणा भार्गवेण च ॥
संक्षिप्तं मनुना चैव बहुभिश्च तपोधनैः ॥
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर ।
बृहस्पतिर्हि भगवान् नान्यं धर्मं प्रशंसति ।
विशालाक्षश्च भगवान् काव्यश्चैव महातपाः ॥
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ।
भारद्वाजश्च भगवाँस्तथा गौरशिरा मुनिः ॥
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः । इति ।
( शा० रा ० पर्व पृ० १३४
अ० ५८ श्लो०१-३ )
२. वृहस्पतिः स्वधर्मं विदनुरक्तः शुचिरनुद्धत उद्युक्तो देशकालविन्नीतिनिगमेतिहास-
कुशलोऽव्यसनी मृदुरर्थशास्त्रकृतयोग्यो हस्त्यश्वपुरुषाचा राहोरात्रयामनिर्गम विनिश्चितमतिश्च
स्वपरबलाबलज्ञो बलाधिकृतः सेनापतिः स्यात् । कुलाढ्य उद्युक्तो मृदुरुदात्तः समरचित्तः
शूरोऽनुरक्तोऽभेद्यः पत्तिविशेषज्ञ इंगिताकारकुशल : प्रतिहार: स्यात् । वनकुलकालजातिसात्म्य-
गुणवयःशीलायुरादानगमनकल्पनावान् व्यपगतभयो विजयोजितमना हस्त्यध्यक्ष : स्यात् । क्षेत्र-
जातिसात्म्यगुणलक्षणवाहनास्त्रज्ञोऽनुरक्तः शुचिर्दक्ष: स्मृतिमान् देशकालज्ञो दर्शनीयो नीति-
गतिज्ञः प्राज्ञो वाग्मी दूतः स्यात् । उभयत उत्तमवंशप्रभवः शुद्धो मनुबृहस्पत्युशनःशास्त्रविद्
दण्डनीत्यादिकुशलोऽशठोऽजिम्हः सम्मानासम्मानाविकृतो विगतभीः कार्याकार्यविनिश्चितमतिर
हार्यः सर्वोपधाशुद्धी गूढमन्त्री मन्त्री स्यात् । अविकार्योऽविकलेन्द्रियः प्रतापवान् सुभगः
सुमुखोऽकृपणोऽप्रमादी दक्षो दाक्षिण्यचारित्ररक्षणार्थमधिकरणासन्दिग्धविवेककृदुपरिकः स्यादिति ।
तथा बृहस्पतिः ब्रह्मशङ्खस्तुतिपुण्याहशब्दैविबुध्योत्थाय सन्ध्यामुपास्य देवपितृब्राह्मणान्