This page has been fully proofread once and needs a second look.

आदित: अ० १ ] विनयाधिकारिके प्रकरणाधिकरणसमुद्देशः
 
२५
 
शास्त्र-विप्रकीर्ण-समस्तविषयैकनिधानम् । इदं बुद्धिस्थं अर्थशास्त्रम्। कृतं मया
प्रणीतम् । एतेन मदीयस्यास्यैकस्य ग्रन्थस्य परिशीलनात् कृत्स्नपूर्वाचार्य -
दर्शनविज्ञानं सुखलभ्यमिति सूचयन् स्वशास्त्रस्य – समूलत्वं पूर्वाचार्य ग्रन्थैरगतार्थ-
त्वम् च द्योतयति ।
 
॥ श्री राजेश्वरशास्त्रिद्राविडव्याख्याता ॥
 
॥ वैदिकसिद्धान्तसंरक्षिणी ॥
 
पृथिव्या इति । चतुर्वर्णाश्रमवती हिमवत्समुद्रान्तरवर्तिनी भूमि: तस्या
इत्यर्थः । तदुक्तम् “यस्य प्रभावाद्भुवन"मिति ( नीतिसारव्याख्यायाम् [१] ) ।
एतावद्भूक्षेत्रमेवैतच्छास्त्रे चक्रवर्तिक्षेत्रत्वेन व्यवह्रियते इत्यपि बोध्यम् ।
लाभे पालने चेति । निमित्तसप्तमीयमिति टीकायां व्याख्यातम् ।
 
निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकप्रतियोग्यवश्यानुष्ठान-
कत्वम्। तच्च ‘राहूपरागे स्नायात्' 'चर्मणि द्वीपिनं हन्ति' इत्यादौ स्फुटम् । ईदृशन्न-
मित्तत्वमर्थशास्त्रस्य लाभपालनयोर्वर्तते । अर्थात् एतदर्थशास्त्रमनुष्ठानपर्यवसायितया
चिन्तितं चेत् श्लाघामुत्पाद्य स्थायिलोकसम्मतिलाभपुरस्सरं पृथिव्या लाभपालनयोः
पर्यवसायि भविष्यति । अर्थशास्त्राभावे तु व्यापकाभावात् व्याप्यभाव इति न्यायेन
लाभपालने न भविष्यतः । तदुक्तम्-
 
आन्वीक्षिकी-त्रयी-वार्ताः सतीविद्याः प्रचक्षते ।
सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥
दण्डनीतिर्यदा सम्यङ नेतारमधितिष्ठति ।
तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ इति
 
लाभः स्वस्य करादिग्रहणाद्युपयोगिस्वत्वोत्पाद: । पालनं चतुर्वर्णाश्रमाणां
मनस आकर्षणानुकूलो भयनिवृत्ति-पोषणादिव्यापारः । तदर्थमर्थशास्त्र मिति संबन्धः ।
 
ननु वर्धनं सत्पात्रप्रतिपत्तिश्च अर्थशास्त्रस्याधिकं फलमिति नीतिसारे उक्तम्,
तदत्र कुतो नोक्तमिति चेन्न । तयोरत्रवान्तर्भावात् । ( तद्रष्टव्यं जयमंगलायां 3 ) ।
 
---
 
१. भुवनं चतुर्वर्णाश्रमलक्षणो लोकः ।
 
२. भाट्टदो २ अ० ४ पा० १ अधि० ( यावज्जीवनिमित्तता धि० ) निमित्तत्वं च
स्वान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानवत्त्वम् । यथा राहूपरागान्वयव्यतिरेकानुविधाय्यवश्या-
नुष्ठानं यस्य स्नानस्य तद्वत्त्वं राहूपरागे इति ।
 
३. तस्या अर्जनं त्रिविधं नवं भृतपूर्वं पित्र्यं च रक्षणमपि द्विबिधं स्वेभ्यः परेभ्यश्च ।
ननु रक्षितविवर्धनं वृद्धस्य तीर्थप्रतिपादनमप्यस्ति । सत्यमस्य द्वयस्यैव विशेषोऽयं यतो रक्षित-
विवर्धनमप्यर्जनमेव । वृद्धस्य तीर्थप्रतिपादनमपि गुणवति पुत्रे निक्षेपो वा अश्वमेधादौ विनियोगो
वा । तदुभयमपि सर्वथा रक्षणमेव । इति ।