This page has been fully proofread once and needs a second look.

॥ अर्थशास्त्र ॥
 
पृथिव्याः लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यै: प्रस्थापितानि,
प्रायशस्तानि सङ्गृह्य एकमिदमर्थशास्त्रं कृतम् ॥
 
॥ क्रोड ॥
 
च पूर्वोक्तरीत्या मनुष्यः धर्मज्ञानविरागैश्वर्यसम्पन्नः सत् वक्ति तर्हि तद्वचने
अप्रामाण्यकल्पनायाः अवसर एव नास्ति यतः एकाग्रभूमिकायां स्थितस्य तस्य
मुक्तत्वे नास्ति शङ्का। तथा च तथाविधस्य ऐश्वर्यादिसम्पन्नस्य मानवस्यापि वाङ्
मुक्तानामेव वाक् भवितुमर्हति । सा च उपर्युक्त टिप्पणीस्थ भावप्रकाशनोद्धृत-
( पृ० १९) वाक्यात् अव्यभिचरितफला भवतीति स्थितम् । “उपर्युपरिबुद्धीनां चरन्ती-
श्वरबुद्धयः” इत्युक्त्या मुक्तानां तत्समकक्षानां वा उपरिबुद्धित्वात् तेषां वाक् प्रमाण-
भूता भवत्येवेति चाणक्योऽपि तथाविधः सन् जीवभावदशायां स्थितयोः शुक्रबृहस्पत्योः
मतं खण्डयति तर्हि तद्युक्तमेव । [१]
 
एतेन चाणक्येन मानवेन समयानुसारेण पूर्वावार्य मतं प्रतिषिद्धम् लोकस्थिति
दृष्ट्वा, इत्यस्माभिरपि वर्तमानदेशकालपरिस्थितिमवलोक्य तन्मतस्यापि परिवर्तनं
कर्तुं शक्यते इति शङ्का अपास्ता । (२८ पृ० ) अपि च नीतिशास्त्रस्य वर्तमान-
समयेऽपि तथाविधमेवाभ्यहितत्वमस्तीति वैदिकसिद्धान्तसंरक्षिण्यां प्रपञ्चितत्वात्
चाणक्यप्रतिपादिता नीति: अद्यापि अपरिवर्तनीयैवेति मन्तव्यम् तथात्वस्य अग्रे
चिन्तितत्वात् । अत्र विषये जयमङ्गलाङ्कृन्मतन्तु अग्रे यथावसर "अत्र के चिदाहु-
रित्या दिग्रन्थव्याख्याने निरूपयिष्यते ।
 
॥ टी० गणपतिशास्त्रिभि: विरचिता ॥
 
॥ श्रीमूला ॥
 
स्वग्रन्थस्य निर्मूलत्वादिशङ्कानिराकरणपूर्वं प्रकरणाधिकरणसमुद्देशं प्रतिज्ञातुं
भूमिकां रचयति – पृथिव्या इत्यादिना | पृथिव्या भूमेः, लाभे अप्राप्तायाः प्राप्तौ,
पालने लब्धायाः परिरक्षणे च विषये । अर्थशास्त्राणि अर्थो नाम वृत्तिः वर्तनं
स्थितिः, सैव हि मनुष्याणां मुख्योऽर्थः तया च मनुष्यसम्बन्धिन्या तदाधारभूता
भूमिरुपलक्ष्यते एवं च मनुष्यवती भूमिरित्यर्थः । तस्याः लाभपालनोपायोपदेश-
कानि शास्त्राणि अर्थशास्त्राणि | यावन्ति, पूर्वाचार्यैः शुक्रबृहस्पतिविशालाक्षादिभिः,
प्रस्थापितानि प्रवर्तितानि तानि । प्रायश इति बाहुल्योक्त्या क्वचित् क्वचिदात्मीय-
दर्शनानां प्रतिपादनं दर्शयति । संहृत्य संगृह्य, एकमिदमर्थशास्त्रं कृतम् । एकं नाना-
 
---
 
१. युक्तियुक्तमुपादेयं वालादपि सुभाषितम् ।
त्याज्यं तद्विपरीतं तु अप्युक्तं पद्मयोनिना ।
 
चाणक्योनापि उक्तम् – शास्त्रं विप्रतिपद्येत धर्मन्यायेन केनचित् ।
न्यायस्तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति । इति । अ०