2022-07-21 05:11:31 by arindamsaha1507
This page has been fully proofread once and needs a second look.
श्रीमद्दशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥ इति ।
तस्मात् ओजः प्राप्तिद्वारा गुरुभक्तिः ज्ञानाभिवृद्धौ सहकारिणीति सर्वं सुस्थम् ।
नमने गुरुनामकीर्तनम्
ननु मङ्गलप्रसङ्गे गुरुनामसङ्कीर्तनं मूलकृता कथं कृतम् ।
आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज् ज्येष्ठापत्यकलत्रयोः ।
इति स्मृतौ निषेधात् । तन्न । तथाविधाचारदर्शनात । यत्र सदाचारः धर्म-
मूलः, स्मार्त:श्रौतोविधिर्वा कर्तव्यं विदधाति तत्र निषेधस्य प्रसक्तिर्न भवति इति
मीमांसायाः सिद्धान्तः । प्रणतिसमये गुरूणां पूज्यानां वा यदा ऐश्वर्यं, देवत्वं वक्तृत्वं,
प्रयोक्तृत्वमादि च पूज्यत्वनिमित्तं स्मर्तव्यं भवति, तदा गुरु-पितृ-प्रभृतीनामुल्लेखः
आचारसिद्धः । तद्यथा-
मधुसूदनसरस्वतीभिः सिद्धान्तबिन्दौ ग्रन्थारम्भे-श्रीभगवत्पूज्यपादानां शङ्करा
चार्याणां नामग्राहं नमनं कृतम् । एवमभिवादनादौ सङ्कल्पादौ च नामोच्चारणमपि
एतन्न्यायेनैव न दोषावहम् ।
गुरुमतखण्डनेपि गुरुभक्ति:
ननु शुक्रबृहस्पती ऐश्वर्यसम्पन्नौ देवौ स्तः तर्हि तदीयमतस्य क्वचिन्मूल-
कृता 'नेति कौटिल्य' इत्युक्त्या कथं प्रतिषेधः कृतः ? इति चेत् उच्यते ।
सर्वेऽपे सचेतनाः स्वकृत्या ईशरूपतां जीवरूपतां वा प्राप्तुमर्हन्ति इति पूर्वं
प्रपञ्चितमस्ति । तदनुसारेण यदा ईश्वरकर्तृक क्रियोपकरणत्वरूपदेवत्वमात्मनि जीवे
उक्तरीत्या आविर्भवति तदा प्रतिपाद्यार्थविषये यथार्थदर्शनं भवति । यदा च
तदनुपकरणत्वम् जीवे आविर्भवति तदा तस्य विपरीतार्थोपि दृष्टिगोचरः भवित-
मर्हः । शुक्रबृहस्पती च जीवभावेन, कदाचित् देवभावेन वा स्थातुमर्हतः । एवं स्थिते
यदा तौ जीवभावमवलम्ब्य ब्रूतः तदा तद्वचने प्रमाणत्रयघटितनी तिलक्षणदृष्ट्या
समन्वयः कर्त्तव्य एव । तद्बाधायां तावानंशः अस्माभिः अननुष्ठेयः । एवं सत्यपि
अस्माभिरननुष्ठेयत्वेन निश्चितस्यार्थस्य विधायकं जीवभावेन स्थितयोः तयोस्तद्-
वचनं सर्वथा अप्रमाणमिति तु न मन्तव्यम् तस्यापि सत्यवसरे कैश्चित् अनुष्ठीय-
मानत्वात् तेषां कृते सफलत्वाच्च । वस्तुतः शुक्रबृहस्पत्योः इतरस्य वा मतस्य
चाणक्यनिर्दिष्टमतेन सह समन्वय एव अस्तीति यथासम्भवं प्रयतिष्यते ।
ननु चाणक्यो मनुष्यः, शुक्रबृहस्पती च देवौ स्तः इति देवतानां वचनापेक्षया
मानववचने दोषबाहुल्यं सम्भवितुमर्हति तथा सति मानववचने देववचनापेक्षया
अनुष्ठेयत्वलक्षणं विशेषतः प्रामाण्यञ्च कथं स्वीक्रियताम् । इति चेन्न । वचनानां
स्वरूपतः निर्दोषत्वेऽपि अप्रामाण्यं भ्रमप्रमादादिदोषप्रयुक्तमेव वक्तव्यं भवति । यदि