2022-07-20 17:02:04 by arindamsaha1507
This page has been fully proofread once and needs a second look.
उच्छलति तेन स्वशरीरेपि नैर्मल्यम्, सर्ववेत्तृत्वं, सर्वशक्तिमत्त्वं प्रभुत्वञ्च
संप्राप्तुं नाशक्यम् ।
ननु इदमलौकिकं वस्तुं गुरुसकाशात् शिष्येण कथं प्राप्तव्यम् । इति चेत्
शृणु । यथा नटेन सञ्चारितस्य साधारणीकरणव्यापारस्य महिम्ना अनुकार्ये स्थितानां
तत्तद्रसानां भावानां वा सामाजिकेषु संक्रमणं भवति । तथैव ध्यानेनापि गुरुसमवेत-
भावानां शिष्येषु संक्रमणं भवितुमर्हति । अतएव योगिनः आहारं विनापि एकाग्रतया
ध्यानमात्रेण अभीप्सितान् शरीरारोग्यकरान् रसादीन् सञ्चारयन्तः तदानन्द महिम्ना
अन्तःस्थं ज्वलनसम्भूतं विषं विनाश्य बहिःस्थितस्य प्राणस्य अन्तःप्रवेशमनपेक्ष्यैव
चिरकालं प्राणायामादीन् संसाधयन्ति, सिद्धिं च प्राप्नुवन्ति । ओजश्च मूल-
टीकायामुपवर्णितायाः आनन्दप्रभामिश्रितायाः ज्ञानप्रभायाः परिणामभूतं वस्तु मन्त-
व्यम् । तदुक्तं चरके –
हृद्यन्तत्स्यात् यदौजस्यं स्रोतसां सम्प्रसाधनम् ।
तत्तयत्नेन संसेव्यं प्रशमो ज्ञानमेव च ॥ इति ।
औजस्यं ज्ञानं तदेव भवति यत्प्रमाणत्रयसमन्वितं भक्तिपुरःसरं गुरुप्रसाद -
लब्धञ्च | गुरुतत्त्वंसाक्षी चेतन: ईश्वर एव । स एव मस्तिष्कभागे स्थितः प्राणादि-
सञ्चारणद्वारा जीवनमूलभूतं चरकोक्तरीत्या ओजः ज्ञानद्वारा यदा प्रयच्छति तदा
प्रमाणत्रयसमन्वितार्थस्य प्रकाशमुपलभ्य जीव आत्मानं गोपायितुं समर्थो भवति ।
यदि सः ईश्वरः अप्रसन्नः तर्हि विपरीतार्थप्रकाशमुपलभ्य जीव: आपत्तीरनुभवति । '
अतो येन एकाग्र भूमिकायां स्थित्वा सत्वं प्रधानीकृत्य पूज्याः गुरवः अभिध्याताः
तस्य ओजस्सम्पादनमूलिका सिद्धिरपि न दूरतः । तथाहि -
विजेतव्या लङ्का चरणतरणीयो जलनिधिः
विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ इति
सत्त्ववतः रामस्य सहायभूताः कपयः आसन्, इत्यत्र न आश्चर्यम् । ते तु
सचेतना: । अचेतना अपि सचेतनस्य साहाय्यं कुर्वन्ति यत्र तत्र सचेतनानां का कथा ?
तथोक्तम्-
ये मज्जन्ति निमज्जयन्ति च परान् ते प्रस्तरा दुस्तरे
वाध वीर तरन्ति वानरभटान् सन्तारयन्तेऽपि च ।
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः