2022-08-09 11:46:08 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
॥ श्रीराजेश्वरशास्त्रिद्राविडविव्याख्याता ॥
॥ वैदिकसिद्धान्तसंरक्षिणी ॥
मङ्गलाचरणम्
श्रीगुरुचरणद्वन्द्वस्मरणं कृत्वाऽर्थशास्त्रस्य ।
वैदिकसिद्धान्तसंरक्षिणीति टीका सपत्रिका क्रियते ॥
ग्रन्थस्य प्रारिप्सितस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरितमुपनिबध्नाति ॐ नमः इत्यादिना---।
ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रारह्मणः पुरा ।
कण्ठं भित्वा विनिर्यांतौ तस्मान्माङ्गलिकावुभौ ॥
इत्युक्तदिशा श्रवणमात्रेण ॐकारस्य मङ्गलरूपताऽवसेया । अथवा ओमिति शुक्रबृहस्पत्योर्विशेषणम् । ब्रह्मरूपाभ्यामिति तदर्थः । शुक्रेति । भीष्मेण इदमेवौशनससम्मतमर्थशास्त्रमद्य यावत् प्रचलितमस्ति इति महाभारते उक्तत्वात् तत्समयपर्यन्तमौशनसशास्त्रस्य प्रचारनिश्चयात् सञ्जीवनीमन्त्रस्य शुक्रेणैवोपलब्धत्वाच्चादौ तन्नामग्रहणम् । शुक्रस्य अल्पाच्तरत्वात् पूर्वनिपातः इति तु जयमङ्गला॥।
मङ्गलप्रयोजनम्
एतन्नमस्कारः गुरुनमस्कारवत् भगवन्नमस्काररूपः शुक्रबृहस्पत्योः भगवत्तेजोंशरूपत्वात् सिद्ध्यति । तयोस्तदंशत्वं भगवद्गीतायामुक्तम् ---—
पुरोधसांछच मुख्यं मां विद्धि पार्थ बृिबृहस्पतिम् । ( अ० १० ।श्लो० २४ )
मुनीनाम् अमप्यहं व्यासः कवीनाम् उश्हमुशना कविः ॥ ( अ० १० ।श्लो० ३७ ) इति।
तथा च शुक्रे बृहस्पतौ च वर्तमाना भगवत्कला नमनेन प्रसन्ना सती बुद्धिस्फीरतिं प्रतिभां च विस्तारयिष्यतीति सिद्ध्यति ॥
ग्रन्थकर्तरि धृतिः
अत्र च मङ्गलस्य निबन्धनेन नृपतन्त्ररार्थमपेक्षणीया धृतिः मन्त्रिणि ग्रन्थकर्तरि अस्तीति स्फुटीभवति । तस्याः खलु सप्तसु राज्याङ्गेषु महती आवश्यकता वर्तते । तथाहि ---— लोकतन्त्रप्राधीनमेव नृपतन्त्रम् ।
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥ (मनुस्मृति २ । १३६)
इति मनूक्तदिशा धनिकैः बन्धुभिः वयोज्येष्ठैः कर्मकुशलैः विद्यावद्भिश्च यदा मान्यो भवति तदैव तत्र नृपत्वं सम्भाव्यते । एतत्कर्तृकमान्यतायामेव च
॥ वैदिकसिद्धान्तसंरक्षिणी ॥
मङ्गलाचरणम्
श्रीगुरुचरणद्वन्द्वस्मरणं कृत्वाऽर्थशास्त्रस्य ।
वैदिकसिद्धान्तसंरक्षिणीति टीका सपत्रिका क्रियते ॥
ग्रन्थस्य प्रारिप्सितस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरितमुपनिबध्नाति ॐ नमः इत्यादिना
ॐकारश्चाथ शब्दश्च द्वावेतौ ब्
कण्ठं भित्वा विनिर्यांतौ तस्मान्माङ्गलिकावुभौ ॥
इत्युक्तदिशा श्रवणमात्रेण ॐकारस्य मङ्गलरूपताऽवसेया । अथवा ओमिति शुक्रबृहस्पत्योर्विशेषणम् । ब्रह्मरूपाभ्यामिति तदर्थः । शुक्रेति । भीष्मेण इदमेवौशनससम्मतमर्थशास्त्रमद्य यावत् प्रचलितमस्ति इति महाभारते उक्तत्वात् तत्समयपर्यन्तमौशनसशास्त्रस्य प्रचारनिश्चयात् सञ्जीवनीमन्त्रस्य शुक्रेणैवोपलब्धत्वाच्चादौ तन्नामग्रहणम् । शुक्रस्य अल्पाच्तरत्वात् पूर्वनिपातः इति तु जयमङ्गला
मङ्गलप्रयोजनम्
एतन्नमस्कारः गुरुनमस्कारवत् भगवन्नमस्काररूपः शुक्रबृहस्पत्योः भगवत्तेजोंशरूपत्वात् सिद्ध्यति । तयोस्तदंशत्वं भगवद्गीतायामुक्तम्
पुरोधसां
मुनीना
तथा च शुक्रे बृहस्पतौ च वर्तमाना भगवत्कला नमनेन प्रसन्ना सती बुद्धिस्फी
ग्रन्थकर्तरि धृतिः
अत्र च मङ्गलस्य निबन्धनेन नृपतन्त्
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥ (मनुस्मृति २ । १३६)
इति मनूक्तदिशा धनिकैः बन्धुभिः वयोज्येष्ठैः कर्मकुशलैः विद्यावद्भिश्च यदा मान्यो भवति तदैव तत्र नृपत्वं सम्भाव्यते । एतत्कर्तृकमान्यतायामेव च