2022-07-20 16:38:27 by arindamsaha1507
This page has been fully proofread once and needs a second look.
धानात् । तच्च उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्वरूपमिति तत्र तत्र
नैयायिकंः प्रतिपादितं वर्तते । ईदृशं स्वातन्त्र्यं यत्र स एव चेतनः ! यत्र तन्नास्ति, सः अचे-
तनः, जड इत्यर्थः । सम्मतं चैतत् वैज्ञानिकानामपि । एवञ्च निद्रावस्थायामबाधितरूपेण
जडात्मकशिरामांसपेशीप्रभृतीनां सञ्चालनं कश्चन जाग्रत् कुर्वाण: स्वतन्त्रः चेतनः
अस्ति स स्वतन्त्र वात् ईश्वर एव । अतः शरीरे उपाधिभेदेन जीवस्य ईश्वरस्य च
कर्तृत्वं सिद्धम् । मनःप्राणवाचोऽपि जीवकर्तृकक्रियायां यदा उपकरणभूताः भवन्ति
तदा जीवः, देवो वा भवतु मानवो वा यः कोऽपि वा सः अल्पज्ञत्वात् अबाधिते एव अर्थे
ताः प्रेरयेत् इति न नियमः । <error>एव</error> <fix>एवं</fix> स्थिते देवोऽपि जीवः तत्कालं भ्रान्त इति वक्तुं
शक्यते । अतएव शुक्रचार्य: सुरया सह राक्षसैः चूर्णितं शिष्यवचमपि भ्रान्त्या पपौ,
इति इतिहासप्रसिद्धमेव । एतस्यामवस्थायां शुक्रबृहस्पतिप्रभृतीनां वचनमपि अन-
नुष्ठेयत्वरूपमप्रामाण्यमावहति । यदा किल मानवोऽपि एकाग्र भूमिकायां तिष्ठन् ऐश्व-
र्यादिगुणचतुष्टयसम्पन्नः सन् स्वकीयं कर्तृत्वमपहाय ईश्वरस्य कर्त्तृत्वे अभिमुखः,
तदा ईशकर्त्तृकक्रियायां तस्य जीवस्य मनःप्राणवाच: उपकरणभृताः चेष्टन्ते, समी-
हन्ते च, तदानीं तद्वचने अबाधितत्वात् अनुष्ठेयत्वरूपप्रामाण्यं निर्विवादमेव । अतः
जीवदशायां शुक्रेण उक्तस्य अर्थस्य ईश्वरमुक्तभावे स्थितेन कौटिल्येन कृतः
प्रतिषेधः, तथा ईश्वरभावेन स्थितस्य शुक्रस्य तेन कृतन्नमनमित्युभयमपि युक्तमेव ।
अर्थात् सर्वत्र नीतिशास्त्रे देवत्वं ईशकर्त्तृकक्रियोपकरणत्वात्मकं बोध्यम् ।
मानसीं भक्तिमनुमापयतीति ।
भक्तेः आयुर्वेदरीत्या उपयोगः
गुरुभक्तिपूर्वकज्ञानाभिवृद्धौ सम्पादितायां शरीरान्तर्गतधातुषु अष्टमस्य सारभूतस्य
ओजसः धातोः रक्षणं भवति तस्मादेव शरीरस्यापि सुरक्षा | सधातुः सर्वशरीरे
शाखारूपेण स्थिताभिः हृदये च मूलरूपेणावस्थिताभिः दशशिराभिः प्रवहति । तेनैव
शरीरस्य चेष्टितंतन्निबद्धं च सत् सफलं भवति, इति साहित्यायुर्वेदाभ्यामवगम्यते ।
अतः ओजसस्संरक्षणाय गुरुभक्तिं द्वारीकृत्य शास्त्रप्रसूतं ज्ञानमपेक्ष्यते इति
सिद्धम् । यथा यथा पूज्यानां गुरूणां चरणौ भक्तिसाहचर्येण चिन्तितौ स्याताम् तथा तथा
गुरुस्वरूपे वर्तमानस्य सत्त्व बहुलस्य ज्ञानतत्त्वस्य संक्रमणेन ओजः उपासकशरीरे नितरां