This page has been fully proofread once and needs a second look.

दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः । इत्यादि । भा० ३ श्लो० २
 
एतेषु देवेषु उक्ता रविसोमवह्नयः शरीरे वर्तमानाः सन्त: मनःप्राणवाग्रूपा
भवन्ति इति ज्ञेयम् ।
 
एवं च उपाधिमेदेन देवत्वं मनस्त्वादि च तेषु तेषु देवेषु सिद्धम् । स च
उपाधिः “कार्योपकरणात्मत्वात् देवा इत्येव कीर्तिताः" इति भावप्रकाशनोक्त-
रीत्या ईशकार्योपकरणात्मकत्वम् । तच्च कार्यं जीवस्य ईश्वरस्य च भेदेन द्विधा
भवति तत्र अस्मिन्नेव शरीरे यदा जीवस्य कर्तृत्वमस्ति तदा इमे मनःप्राणवाचः
जीवकार्योपकरणानि भवन्ति । यदा तु ईश्वरस्य कर्तृत्वं तदा तु ते ईशकार्योपकरणानि
भवन्ति तदानीं त एव देवा इति व्यपदिश्यन्ते । जीवस्य कर्तृत्व अयं स्वतन्त्रः ।
ईशस्य कर्तृत्वे तु सः स्वतन्त्रः इत्यन्यदेतत् । तथाचायं निष्कर्षः, ईशकार्ये एते यदि
उपकरणानि स्युः तर्हि ईशकार्योपकरणत्वं देवत्वं तेषां बोध्यम् । जीवकार्योपकरणत्वे
एते यथाश्रुतनाम्नैव मनः प्राणो वाक् इति ज्ञायन्ते ।
 
यद्यपि आपाततः जीवेन सह सम्बद्धस्य शरीरस्य चेष्टां प्रति ईश्वरस्य
कर्तृत्वं न प्रसिद्धम्। तथापि विचार्यमाणे ईश्वरोऽपि शरीरचेष्टां सञ्चालयन् जीवे
वर्तत इति अवश्यं वक्तव्यं भवति । तथाहि -
 
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
 
इत्यादिगीतोक्तवचनप्रामाण्यानुसारेण उपभुक्ताहारपचनकर्तृत्वं भगवतः
ईश्वरस्यैव अस्ति इति सिद्ध्यति । एवं शरीरान्तर्वर्तिनीनां मांसपेशीनां चेष्टायां
विचार्यमाणायां सत्यां तच्चेष्टा कर्तृत्वमपि शारीरविज्ञानानुसारेण ईश्वरे सिद्ध्यति ।
तथाहि-शरीरे मांसपेश्यः द्विविधाः वर्तन्ते । तासु काश्चन जीवसञ्चालनाधीनाः सत्यः
चेष्टन्ते यथा करप्रसारणसंकोचनादिकारिण्यः पेश्यः । अपराश्च स्वतन्त्राः ईश्वराधीनाः ।
तथाहि-जीवो जाग्रद्दशायां चेष्टमानः स्वशरीरे परिश्रान्तः दुःखमनुभवन् विश्रान्ति-
मीहते । यदि स न विश्राम्येत् तर्हि भुक्तस्याहारस्य रसादिरूपेण परिणामो न भवतीति
आयुर्वेदसिद्धम्, जीवस्य विश्रामो हि निद्रात्मकः । तदानीं अस्य सर्वाश्चेष्टाः अवरुद्धा
भवन्ति एतदवस्थायां समानवायु: भुक्ताहारं रसरूपेण परिणतं तत्तच्छिराद्वारा सर्वत्र
सञ्चारयति । एतत्सञ्चरणसमये तत्र तत्र प्राप्तरसानां ग्रहणार्थं शिराः स्वमुखमुद्-
धाटयन्ति । रसग्रहणानन्तरं मुखं पिदधति । अयं शिराणां व्यापारः स्वतन्त्रः परं स
कस्य प्रेरणया निद्रासमये प्रचलित इति विचार्यमाणे सुप्तस्य जीवस्य कर्तृत्वबाधात्
कश्चन अन्यः कर्ता वर्तते इत्यनुमीयते । स ईश्वरान्नातिरिक्तः ।
 
कत्तृत्वं हि स्वातन्त्र्यापरपर्यायम् । “स्वतन्त्रः कर्ता" इति पाणिनीयसूत्राभि-