This page has been fully proofread once and needs a second look.

द्रव्यमित्यनेन जीवोत्पत्तिविचारे कृतया भावप्रकाशनोक्तदिशा शुक्रशोणितात्मकं
ग्राह्यम् इत्यभ्यूह्यतं'। भावप्रकाशने प्रतिपादितं शुक्रशोणितात्मकं द्रव्य "बहु स्यां
प्रजायेय” इति श्रुतेः संकल्परूपमेव बोध्यम् । स च सङ्कल्पः गुणत्रयभेदेन त्रिधा
भवति सत्वादिभेदात् ।
 
अत्रायं विवेकः सत्त्वपरिणामि द्रव्यं जीवनिष्ठं चेत् मनः । तद् एव सत्व-
परिणामि <error>द्रव्यं</error> <fix>द्रव्यम्</fix> ईश्वरे मुक्ते च समवेतं सत् सङ्कल्पः इति व्यपदिश्यते । एवमेव तदेव
शुक्रशोणितात्मकं द्रव्यं सङ्कल्पात्मकं रजःपरिणामवत् जीवनिष्ठं चेत् प्राणः ।
ईश्वरमुक्तयोस्तु समवेतं तदेव स्पन्द इति व्यपदिश्यते । तथैव उपर्युक्तं द्रव्यं
सङ्कल्पात्मकं तमः परिणमवत् जीवसमवेतं चेत् शब्दरूपतां भजते । ईशसमवेतन्तु
तदेव शोभना वाक् भवति ।
 
एतेन इदं सिद्धम् यत् ईश्वरे मुक्ते जीवे च स्थिता विभिन्न विभिन्न नाम्ना
द्रव्यात्मिका: कार्यं
 
सत्वरजस्तमः परिणा मिरूपाः
 
व्यपदिश्यमानाः मनःप्राणवाचः
 
कुर्वन्ति इति । ये च रविः चन्द्रः वह्निः इत्यादिनाम्ना तत्र तत्र पुराणेषु देवाः
व्यपदिश्यन्ते पुनस्त एव जीवस्य तत्तत्स्थानेषु स्थित्वा कार्यं प्रचालयन्ति च इति ।
तदुक्तम् भागवते–