This page has been fully proofread once and needs a second look.

एवञ्च धर्मज्ञानादिसम्पन्नानां लक्षण्यायाः प्रतिमायाः ध्याने कृते सति आत्म-
न्यपि ऐश्वर्यं तद्विधमेव प्राप्तुं शक्यते । राज्ञां इदमेवैश्वर्यं प्रभुत्वम्, यस्य प्रभावतः
शासनपत्रे लेखारूढो विषय: अविकृतरीत्या कार्यकरणसमर्थो भवति । एतस्यैश्वर्यस्य
अल्पीयस्यामपि न्यूनतायां महाननर्थो भवितुमर्हति । तद्यथा रघुनाथराव पेशवामहो-
दयेन “नारायणरावांस धरा" इति शासनद्वारा आज्ञप्तम् । तत्र मध्ये केनचित् 'ध' स्थाने
'मा' पदं संयोज्य शासनं प्रेषितम् तस्य परिणाम: "पेशवा" इतिहासे प्रसिद्धः ।
 
ईदृङ्मेधावी सन् नरः यदि पूर्वोक्तसात्त्विक गुणधर्मज्ञानादिसम्पन्नः एकाग्रभूमि-
कायां स्थितो भवति । तर्हि स एकाक्यपि भवतु, नृपतिपदाय शमाय च क्षमो भवति ।
तदुक्तं दशकुमारचरिते उत्तरपीठिकायाम् – “एकशरीरिणमपि मयं चक्रवर्तिनं
 
विदधीमहि यद्यस्मदुपदिष्टेन मार्गेण आचर्यते” इति । देवाविति - राजनीतिशास्त्रे
दवत्वस्य नीतिलक्षणानुसारेण कीदृशं स्वरूपं भवितुमर्हतीति वैदिक सद्धान्त-
संरक्षिण्यां संक्षेपतः उक्तमस्ति । तत् विशदीक्रियते ।
 
सर्वज्ञस्य परमेश्वरस्य निःश्वासेन प्रसूतः वेदभागः कस्मिन्नपि अंशे सदोषः
अस्तीति अद्ययावत् केनापि प्रमाणपुरःसरं न सावितम् । तत्र यो विधिभागः तत्प्रेरित-
मेव यदि अस्माभिः सहर्षम् अनुष्ठेयत्वेन स्वीक्रियते तर्हि अस्मासु वेदपरम्परया
प्राप्ता ज्ञानप्रभा सफलत्वात् आनन्दप्रभामिश्रिता सती सत्वरूपेण प्रकटीभवति
इत्युक्तम् । वेदप्रात्ता च ज्ञानप्रभा येन साधिता यदि च तस्य मनः प्राणो वाक् च
भगवतः परमेश्वरस्य उपकरणभूता भवन्ति तर्हि तस्मिन् देवत्वं भवति । अयथा तु
केवलं मन प्राणवाक् संज्ञयैव ते व्यवह्रियो । अन्यत्राऽपि एवमेव देवत्वं बोध्यम् ।
अथ मनआदीनां स्वरूपं नीतिलक्षणानुसारेण प्रसङ्गाद् विमृश्यते । तथाहि —
 
सवपरिणामि द्रव्यं मनः, रजःपरिणामि द्रव्यं प्राणः, तमःपरिणामि द्रव्यं
वागिति । तदुक्तम भावप्रकाशने तत एव द्रष्टव्यम्' ।