This page has been fully proofread once and needs a second look.

उक्तान्दोलनस्वरूपः उच्यते । तस्मिन् सति वस्त्राभरणदानालिङ्गनादीनि
कार्याणि निसर्गसिद्धानि अनुभावरूपाणि संभवन्ति । तदुक्तम्-
 
वस्त्राभरणदानाश्रुपुलकालिङ्गनादिभिः ।
अभ्युत्थानेन वर्ण्योयं प्रियश्रवणजो बुधैः ॥ ( भा०प्र० १ अ० ) इति ॥
 
<error>एवंच</error> <fix>एवं च</fix> देवभावे स्थितेन राज्ञा प्रियश्रवणप्रयुक्तः लोकेषु आन्दोलनात्मकः
दानव्यवहाराद्यनुभावकः आवेगः दृष्टार्थः संचालयितुं शक्यः | लोकमतमपि आवेग-
प्रयुक्तं राज्ञा सहजत एव प्राप्तुं सुलभमिति देवत्वस्य आवेगोत्पादनद्वारा दानमुखेन
लोकमतप्राप्तिरूपलोकतन्त्रात्मकदृष्टार्थोपकारकत्वं सिद्धम् ।
 
अत्यन्तं पूज्यन्ते इति । देवपूजने आत्यन्तिकत्वं अनैश्वर्यासमानाधिकरणै-
श्वर्यादिगुणसम्पत्तिहेतुकत्वम् । तच्च रससङ्क्रमणवत् ध्यानपूजनादिनापि सम्भवति ।
तथाहि-ध्यातव्या देवप्रतिमा यादृशी ऐश्वर्यादियुक्ता भवति तदुपासकेषु ता दशस्यै-
श्वर्यादेः सङ्क्रमणं भवतीति देवपूजनं श्रद्धया कुर्वत्सु एकलव्यसदृशेषु इतिहास-
प्रसिद्धमेव । ध्वनितं चैतदायुर्वेदेऽपि -
 
पूर्वं पश्येद् ऋतुस्नाता यादृशं नरमङ्गना ।
तादृशं जनयेत्पुत्रं भर्तारं दर्शयेत् अतः ॥ इति ( सु० अ० ३ श्लो० २६ )
 
यदि च ध्येयप्रतिमायां वैगुण्यं भवेत् तर्हि ध्यातर्यपि वैगुण्यम् ऋतुस्नातृन्या-
येन संभवितुमर्हति। अणुमात्रमपि वैगुण्यम् ईशकार्ये अनुरक्तयोः शुक्रबृहस्पत्योः
तद्दशायां नास्ति । अतएव अग्रे "कृत्स्नशास्त्रप्रणयनाद् वक्तारौ, देवासुराणां च
संधिविग्रहप्रयोगात् प्रयोक्तारौ, ऐश्वर्ययोगाच्च देवौ" इति वक्ष्यते आचार्येण । तेन
तयोः सुलक्षणैश्वर्यं सम्पन्नतया तावधिकृत्य ध्यातरि चागक्येपि वक्तृत्वादिगुणत्रयं
सम्भावयितुमर्हमिति ध्वनितम् । ऐश्वर्ययोगादिति । एतेन शुक्रबृहस्पत्योः धर्मः ज्ञानं
वैराग्यं च आसीत् इति सिद्ध्यति । तज् ज्ञेयम् सांख्यतत्त्वकौमुद्याम् ।