2022-07-20 05:21:28 by arindamsaha1507
This page has been fully proofread once and needs a second look.
टिप्पण्युद्धृतः मस्तिष्कविकारः अन्यशास्त्रेषु राजसतामससंज्ञया व्यवह्रियते ।
तदुक्तं-अर्थशास्त्रप्रतिपादितान्वीक्षिकीपदव्यवहार्यषष्टितन्त्रसंग्रहरूपायां सङ्ख्यकारि-
कायाम्' तत्रैव द्रष्टव्यम् ।
अतः एतन्निरासहेतुभूतस्य सत्वात्मकस्य मूलटीकायामुप - ( वैदिक सि० )
वर्णितस्य धृतिभावस्य लाभाय शिष्याः पूज्यान् नमस्कुर्वन्ति स्तुवन्ति, कीर्तयन्ति
इदं यद् दृष्टं फलं मङ्गलस्य, तन्न गुरुभक्तिरहितेषूपलयते इति ।
दृष्टादृष्टार्थानुग्राहिणो देवा इति ।
दृष्टोपकारकत्वम् देवत्वस्य
ननु देवत्वस्य दृष्टार्थानुग्राहकत्वं कथमिति चेत् उच्यते । देवत्वं हि ईशकर्तृक-
कार्योपकरणत्वमिति व्यवस्थापयिष्यते । सर्वज्ञेन परमेश्वरेण उपदिष्टाद्वैदिक विधि-
भागाद् या प्रेरणा उपलभ्यते तथा इष्टसाधनत्वमनुमाय प्रवृत्ती सत्यां अस्मासु देवत्वं
भवितुमर्हति, तथा तत्र नियतफलप्राप्त्या संतोषसुखमपि नियतम् । इदमेव सत्त्वगुणस्य
स्वरूपमित्येतत्सर्वं विशिदीकृतं टीकायायाम् । एवंरीत्या निश्चितायां फलप्राप्तौ
ईश्वरदासभावेन प्रवृत्तो यो नीतिमान् राजा तस्मिन् अवज्ञापाहष्यानृतभाषणपरदार-
ग्रहणगृहभंजनाग्निदाहादिक्रोधोत्पादकव्यवहाराभावेन सर्वव्यवहारेषु आलापेषु स्पर्शेषु
चेष्टितेषु निमित्तेषु च माधुर्यं स्वतःसिद्धं भवति । किञ्च तत्र प्रमाणपरतन्त्रत्वात्
अबाधितत्वमौचित्यमपि भवत्येव । इदमेव देवत्वस्य महत्फलं यत् तेन माधुर्यस्य
आस्वादग्रहणाय पुष्पेषु षट्पदा इव लोकस्य मनांसि आकृष्टानि भवन्ति । इद-
मेवाकर्षणं राजनीतिशास्त्रदृष्ट्या आन्दोलनमित्युच्यते । तच्च आवेगे अन्तर्भूतम्
तदाहुः -
आवेगस्तु महोत्पातवातवर्षाग्निकुञ्जरैः ।
प्रियाप्रियश्रुतैः शत्रुव्यसनाभिहतैरपि । इति । ( भा० प्र० १ अ० )
अत्र हि आवेगस्य अष्टविधो विभागः उक्तः । तत्र प्रियश्रुतिजन्यः आवेगः