This page has been fully proofread twice.

साहित्यविदोऽपि इमां प्रतिभां शक्तिपदेन व्यवहरन्ति । तत्स्वरूपं गोकुल-
नाथोपाध्यायैः एवमुक्तम् -
 
"मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य ।
अक्लिष्टानि च पदानि विभान्ति यस्यामसौ शक्ति:" ॥ इति ॥
 
किञ्च यदि पूज्याः कञ्चनोपेक्षन्ते शपन्ति वा, तर्हि सत्यवसरे तस्मिन् प्रति-
भोद्द्बोधकसंस्काराणामुद्बोधो न भवति इति महान् दोषः मङ्गलाभावे स्मर्तव्यः । अत्र
युद्धसमये कर्णादीनां प्रसङ्गविशेषे शस्त्रास्त्रे प्रति विस्मरणमुदाहरणं पर्याप्तम् ।
 
पूज्यानामपूजने कारणं गर्वेण मदेन वा विकृतं मनो भवति इति भावप्रकाशने
द्रष्टव्यम् । न च इष्टापत्तिरितिवाच्यं राज्यहानिप्रसंगात् ।
 
अत्रेदमाकूतम् - राज्यसञ्चालने प्रतिक्षणं विलक्षणानि
स्थितानि भवन्ति । तत्र अनेकविधाः प्रयोगा अपि अभ्यूह्या भवन्ति राजनीतिविद्भिः ।
परन्तु इमे राजनीतिविदो यदि पूज्यान् न नमन्ति, न स्तुवन्ति, न कीर्तयन्ति वा,
तर्हि तेषु गर्वमदहेतुकया रजस्तमस्सहचारिण्या मनोविकृत्या पूर्वोक्तरीत्या प्रति-
भोद्द्बोधकसंस्काराणाम् अनुद्द्बोधो निश्चतः ।
 
तथाच सकलजनमनोरञ्जकस्य कवित्वस्य बीजभूतं यदौचित्यं तदेव
गर्वमदाभ्यामुपहन्यते ततो विवेकस्थाने जाड्यमापद्यते ! तेन पारतन्त्र्यमवश्यंभावि ।
 
गुरुपरम्पराऽध्ययने विशेषः ।
 
गुरुपरम्पराप्राप्तस्य अस्मच्छास्त्रस्य अयं विशेषः यत् पूज्यभक्तिपूर्वकं यदि
शास्त्रमधीयते तर्हि शास्त्रार्थः स्वयमुपस्थितो भवतीति । यदि गुरुभक्तेः आश्रयणं न
क्रियते तर्हि तन्मूलकनिर्विकारतायाः अभावेन मनः क्षिप्तं विक्षिप्तं मूढं वा भवेत् ।
तेन मस्तिष्कसम्वद्धेषु ज्ञानतन्तुषु कार्यकरणाक्षमत्वम् प्रतिभाया अभावो वा निश्चितः ।