This page has been fully proofread once and needs a second look.

॥ पण्डित राजराजेश्वरशास्त्रि द्राविडव्याख्यातं ॥
॥ जयमङ्गलाक्रोडपत्रम् ॥
 
क्रियते इति । यथा उद्देशनिर्देशात्मकं ग्रन्थं चाणक्यः सर्वस्यार्थशास्त्रस्य
पारं विज्ञानानः संक्षेपेण षट्श्लोकसहस्रेण जगाद् । तथैवायं टीकानिर्माता सर्वाण्यपि
पूर्वाण्यर्थशास्त्रव्याख्यानान्याकलय्य संक्षपतः जयमङ्गलामिमां टीकां रचितवानि-
त्यस्यापि समस्तार्थशास्त्रटीकाभिज्ञत्वं, मूलकृतः समस्तार्थशास्त्राभिज्ञत्वमिव विशदी-
भवति ।
 
यतः पूज्यत्वं विना नमनं न भवति यस्माच्च कौटल्य: शुक्रबृहस्पती
नमस्करोति तस्मात् तयोः पूज्यत्वं सः मन्यते । तन्निष्ठं पूज्यत्वं किन्निमित्तमिति
स्फुटी कर्तुमाह-पूज्या इति ।
 
ननु केषुचिद्ग्रन्थेषु आरम्भे पूज्या: नमस्क्रियन्ते, स्मर्यन्ते कीर्त्यन्ते वा ।
केषुचित्तु ग्रन्थेषु न ते नमस्क्रियन्ते, स्मर्यन्ते कीर्त्यन्त वेति नमस्काररूपमङ्गलस्य
दृष्टसाधारणतया प्रयोजनवत्वम् कथं मन्तव्यम् ? इति चेत् प्रतिभासम्पत्तिः मङ्गलस्या-
साधारणं फलमिति । तथाहि - प्रतिभासंपत्तिरहितः अधीतशास्त्रोऽपि - अदृष्टकर्मा-
कस्मिन्नपि पदे अधिष्ठातुमयोग्यो भवति । अतः समस्तशास्त्रेषु अधीतेष्वपि
विद्यावतां प्रतिभासम्पत्तेरपेक्षा वर्तत एव । सेयं गुर्वादीनां पूज्यानां प्रसादाधीनेति तत्र
तत्रोक्तम् । तद्यथा –
 
यस्य देवे परा भक्तिः यथा दैवे तथा गुरौ ।
तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनां ॥
अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च ।
यत्कृपालेशमात्रेण नमोऽस्तु गुरवे सदा ॥ इति ॥
 
एवमेव पूज्यैः सह विनश्रीभूय कृता सङ्गतिर्वादश्च प्रतिभास्फूर्तये कारणं
भवति· इति न्यायसूत्रव्याख्याने वाचस्पतिमिश्रा।