This page has been fully proofread once and needs a second look.

व्यक्तम् विद्याविदग्धमतय इत्या दिना' ।
 
यत्किलापस्तम्बेन धर्मसूत्रे १ | २ |५|३ अवरे ऋषयो न भवन्ति इत्युक्तम | तत्तु
वेदस्य प्रथमाध्येतृत्वं इति व्याख्यानाभिप्रायेण बोध्यम् । तदुक्तं किरणावल्याम-प्रथमं
वेदाध्येतारः इति ।
 
श्रीशङ्करार्यविरचिता
जयमङ्गला
 
पूर्वमतानि यथेदं सङ्गृहकं चकार कौटल्यः |
कान्तराणि दृष्ट्वा सद्व्याख्यानं समुद्धृत्य ||
क्रियते तथा मयापि त्यक्त्वा च ग्रन्थविस्तरं पूर्णा ।
बालहिता टीकेयं दुर्ज्ञेयं यद् वितत्य सर्वमिदम् ॥
 
प्रेक्षावतां पूज्यपूजनात् सर्वारम्भा अविघ्नितप्रसरा भवन्तीति मन्यमान
आह - 'नमः शुक्रबृहस्पतिभ्याम' इति । पूज्याश्च वक्तृत्वप्रयोक्तृत्वैश्वर्ययोगात्
त्रिविधाः । तत्र ये शास्त्राणां वक्तारः ते तच्छास्त्रव्यवहारिभिः पूज्यन्ते, ये
शास्त्रार्थानां प्रयोक्तारः ते तन्त्रानुवतिभिः पूज्यन्ते ! ये च अणिमाद्यैश्वर्ययुक्ताः,
ते दृष्टादृष्टार्थानुग्राहिणो देवा अत्यन्तं पूज्यन्ते । अनयोश्च त्रितयमपि पूजनीयत्वं
• निमित्तमस्ति । तत्र कृत्स्नशास्त्रप्रणयनाद् वक्तारौ, देवासुराणां च सन्धिविग्रह-
प्रयोगात प्रयोक्तारौ, ऐश्वर्ययोगाच्च देवौ इति मन्यमान इह कौटल्यस्तावेव
नमस्कृतवान् । नमः शब्दयोगाच्चतुर्थी | नमः - शब्दश्च मानसीं भक्तिम् अनुमापयति ।
'पाण्यादीनां साधनानां बाह्यां पूजां प्रदर्शयति । अत्र “आनङ ऋतो द्वन्द्व " ( ५-३-२५ )
“देवताद्वन्द्वळे च” ( ६ ३-२६) इति नानङ | पुनद्वग्रहणात् पूर्वनिर्दिष्टानामेवेति
स्थितेः । यथा सूर्याचन्द्रमसोरिति चन्द्रसूर्ययोरिति च व्यवहारौ । ततश्च शुक्रस्या-
ल्पाचतरत्वात् पूर्वनिपातः ।
 
१. ऋपति प्राप्नोति सर्वान् मन्त्रान् ज्ञानेन पश्यति, संसारपारं वा इति ज्ञानसंसारयोः
पारगन्तः शास्त्रकृदाचार्यः । विद्याविदग्धमतयो रिषयः प्रसिद्धाः इतिभरतवाक्यादृषिशब्दो
रिषिरित्यपरपर्यायत्वेनापि बोध्यते । तस्य व्युत्पत्तियथा मत्स्यपुराणे
-
 
ऋषि हिंसागतौ धातुः विद्यात्सत्यवचः श्रुतिः ।
 
एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः । इति । ( शब्दकल्पद्रुमे )
 
२. ऋषीन् गौतमभरद्वाजादीन् पितॄन् कश्यपच्यवनादीन् देवगणान् कूष्माण्डादीन् ।
गणशब्द: प्रत्येकमभिसम्बद्धयने । प्रजापतयः तत्तत्प्रतिनियतप्रजासप्टारः । मनवो राजधर्म-
प्रवर्तयितारः । देवा हविर्भागभोक्तारः । ऋषयश्च प्रथम वेदाध्येतारः किन्नरा: स्वधाभागहारिणः ।
गणा बलिभागिनः । इति । ( प्र० भा० टी० सृष्टिसंहारप्रकरणम् )