2022-08-02 09:46:05 by Aditya_Dwivedi
This page has been fully proofread twice.
कौटिलीयमर्थशास्त्रम्
प्रथमो भागः
विनयाधिकारिकम् नाम प्रथममधिकरणम्
प्रथमोऽध्यायः
[मङ्गलम्]
॥ अर्थशास्त्रम् ॥
ॐ नमः शुक्रबृहस्पतिभयाम् ।
॥ टी० गणपतिशास्त्रिभिः विरचिता ॥
॥ श्रीमूला ॥
विघ्नेशं देवतां वाचं प्रणिपत्य गुरूनपि ।
व्याख्यानमर्थशस्त्रस्य कौटिलीयस्य कुर्महे ॥
अथ निखिलविद्याविचक्षणः स्वबुद्धिसामर्थ्यापहृतनन्दराज्यसिंहासनारोपणानुगृहीतचन्द्रगुप्तः कौटिल्यचाणक्यादिपर्यायपदवाच्यस्तत्रभवान् विष्णुगुप्ताचार्यस्त्रिवर्गसम्पत्तिहेतुभूतार्थार्जनोपायोपदेशप्रधानमर्थशास्त्रमारिप्सुः पूर्वाचार्यप्रणामलक्षणं मङ्गलमाचरति ---
'ॐ नमः शुक्रबृहस्पतिभयाम्' इति ।
ओमिति माङ्गलिकः शब्दः । 'नम' इति प्रणामः । अस्त्वित्यध्याहारः । शुक्रबृहस्पतिभ्यां शुक्रोऽसुरगुरुः बृहस्पतिर्देवगुरुः ताभ्याम् । 'नमस्स्वस्ती' - (२ । ३ । १६) - त्यादिना चतुर्थी । तौ ह्यर्थशास्त्रप्रवर्तकेष्वाचार्येषु कूटस्थाविति तत्प्रणामोऽत्यन्तमुचितः । तत्र शुक्रप्रणीतमौशनसं नाम, यत्सङ्ग्रहात्मा शुक्रनीतिः । बृहस्पतिप्रणीतं तु बार्हस्पत्याख्यामिति द्रष्टव्यम् । अत एव शास्त्रकर्तृत्वादाचार्यत्वविवक्षया तयोर्देवतात्वाविवक्षणाद् "देवता द्वन्द्वे च" (६ । ३ । २६) इत्यानङिह द्वन्द्वो न कृतः ॥