2023-02-21 15:48:55 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-
दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥
यामस्ते शिवमस्तु रोहणगिरे मतः स्थितिप्रच्युता
वर्तिष्यन्त इमे कथं कथमपि स्वप्मेऽपि मैवं कृथाः ।
भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥
उत्तसेषु ननर्त न क्षितिभुजां न प्रेक्षकैलेक्षितः
साकाङ्क्ष लुठितो न च स्तनतटे लीलावतीनां कचित् ।
कष्टं भोश्धिरमन्तरेव जलधैर्देवाद्विशीर्णोऽभव-
त्खेलब्यालकुलाङ्ग घर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यसङ्घै-
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् ।
यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः
प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययः खण्डकं
ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् ।
नो जाने किमभावतः किमथ वा दैवादहो श्रूयते
नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥
पथि परिहृतं कैश्चिद्दृष्ट्वा न जातु परीक्षितं
विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् ।
गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै
र्मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ॥ ४४ ॥
वणिगधिपते किंचिद्रूमस्त्रपामिह मा कृथाः
कथय निभृतं केयं नीतिः पुरे तव संप्रति ।
मरकतमणिः काचो वायं भवेदिति संशये
लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ॥ ४५ ॥
For Private And Personal Use Only