This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
८८
 
www.kobatirth.org.
 
काव्यमाला ।
 
अथ मलयाचलस्य ।
 

 
वन्दामहे मलयमेव यदा श्रयेण

शाखोटनिम्बकुटजा अपि [^१]चन्दनन्ते ।

किं तेन हेमगिरिणा रजताद्रिणा वा
 

यस्याश्रिताश्च तरवस्तरवस्त एव २० ॥

 
त्वं सेवितः किल फलाय तदस्तु दूरे
 

व्यालान्निवारय निपीडयतो बलान्नः ।

एतत्तवाप्यभिमतं यदि तन्नमस्ते
 

यामोऽन्यतो मलय हे नतु चन्दन्तःन<flag></flag> स्मः ॥ २१ ॥

 
इक्कस्स मलयगिरिणो दिज्जइ रेहागिरीणमझ्झम्मि ।

जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥

 
अथ रोहणाचलस्य ।

रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥

 
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
 

किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।

हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-

क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्धोद्यो भवान् ॥ २४ ॥
 

( इति सामान्यविशेषपर्वतान्योक्तयः ।)
 
12
 

 
अथ रत्नान्योक्तयः ।

अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।

येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥

 
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।

करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥

 
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।

उद्गारे तु विशेषोऽस्ति तयोरमृतवहिह्निजः ॥ २७ ॥
 

 
[^
१.] चन्दनन्ति , चन्दनानि वा समुचितम्.
 
For Private And Personal Use Only