This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
८८
 
www.kobatirth.org.
 
काव्यमाला ।
 
अथ मलयाचलस्य ।
 
वन्दामहे मलयमेव यदा येण
शाखोटनिम्बकुटजा अपि चन्दनन्ते ।
किं तेन हेमगिरिणा रजताद्रिणा वा
 
यस्याश्रिताश्च तरवस्तरवस्त एव २० ॥
त्वं सेवितः किल फलाय तदस्तु दूरे
 
व्यालान्निवारय निपीडयतो बलान्नः ।
एतत्तवाप्यभिमतं यदि तन्नमस्ते
 
यामोऽन्यतो मलय हे नतु चन्दन्तः स्मः ॥ २१ ॥
इक्कस्स मलयगिरिणो दिज्जइ रहागिरीणमझ्झम्मि ।
जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥
अथ रोहणाचलस्य ।
रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
 
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्धो भवान् ॥ २४ ॥
 
( इति सामान्यविशेषपर्वतान्योक्तयः ।)
 
12
 
अथ रत्नान्योक्तयः ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
उद्गारे तु विशेषोऽस्ति तयोरमृतवहिजः ॥ २७ ॥
 
१. चन्दनन्ति चन्दनानि वा समुचितम्.
 
For Private And Personal Use Only