This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
ये संतोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो

येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता ।

इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां

स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥

 
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं

करीन्द्रं पौलोमीपतिरपि च लेभे जलनिघेः ।

त्वया किंवा लब्धं कथय मथितो मन्दरगिरे

शरण्यः शैलानां यदयमदयं[^१] रत्ननिलयः ॥ १५ ॥

 
अथ हिमालयस्य ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् ।

ईश्वरश्वशुरताप्रभावतस्तद्भुध्रुवं जगति जृम्भते यशः ॥ १६

 
अथ मैनाकस्य ।
 

 
शक्रादरक्षि यदि पक्षयुगं तथापि
 

[ मै] नाक सन्ति तव नेह गतागतानि ।

निःसत्त्वता च निरपत्रपता च किंतु

पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥

 
अथ पूर्वाचलस्य ।
 

 
क्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे ।

जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥

 
अथ विन्ध्यभूधरस्य ।
 

 
आचक्ष्महे बत किमद्यतनीमवस्थां
 

तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
 
१. मददादिति प्रतिभाति.
 

यत्रैव सप्त मुनयस्तपसा निषेदुः
 

सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥
 
For Private And Personal Use Only
 
८७
 

 
[^१.] मददादिति प्रतिभाति.