This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
ये संतोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो
येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिघेः ।
त्वया किंवा लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ १५ ॥
अथ हिमालयस्य ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् ।
ईश्वरश्वशुरताप्रभावतस्तद्भुवं जगति जृम्भते यशः ॥ १६ ।
अथ मैनाकस्य ।
 
शक्रादरक्षि यदि पक्षयुगं तथापि
 
[ मै] नाक सन्ति तव नेह गतागतानि ।
निःसत्त्वता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥
अथ पूर्वाचलस्य ।
 
इकुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे ।
जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥
अथ विन्ध्यभूधरस्य ।
 
आचक्ष्महे बत किमद्यतनीमवस्थां
 
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
 
१. मददादिति प्रतिभाति.
 
यत्रैव सप्त मुनयस्तपसा निषेदुः
 
सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥
 
For Private And Personal Use Only
 
८७