This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
८६
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
शरबन्धचित्रम् ।
 

 
वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् ।

न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥
 

 
[^१]
श्रीदातारं विश्वाधारं बुद्धयासारं नित्योदारम् ।

चञ्चद्वेरं वन्दे वीरं भूभृद्वीरं क्षेमागारम् ॥ ६ ॥

 
अष्टदलकमलबन्धचित्रमिदम् ।

श्रीविजयानन्दगुरुं विजयानन्दमन्दिरम् ।

भूरि भूरिशिरोरत्नं महोदयमभिष्टुमः ॥ ७ ॥

 
अथ प्रतिद्वारवृत्तानि ।
 

प्रतिद्वारक्रमं चञ्चत्सच्चमत्कारकारकम् ।

विरच्यते पञ्चमेऽथ परिच्छेदे पटीयसि ॥ ८ ॥

 
सामान्यभूधरान्योक्तिर्मन्दरोक्तिस्ततः परम् ।

हिमाद्व्यन्योक्ति[मै]नाकान्योक्तिपूर्वाचलोक्तयः ॥ ९ ॥

 
ततो विन्ध्याचलान्योक्तिर्मलयाद्रेः सदुक्तयः ।

रोहणोर्वीधरान्योक्ती रत्नस्यान्योक्तयस्तथा ॥ १० ॥

 
मञ्जुमुक्ताफलान्योक्तिः सुवर्णोक्तिस्ततः परम् ।

पित्तलोक्तिः समाख्याता धूल्युक्तिरपरा मता ॥ ११ ॥

 
अथ पृथ्वीकायपद्धतौ पूर्वं सामान्यपर्वतस्य ।

 
नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः

शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः ।

येषामुच्चै स्तरूणामविहतगतिना वायुना कम्पिताना-

माकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः ॥ १२

 
अथ मेरोः ।
 

 
धिक्कनकं तव कनकगिरे यस्य न जगदुपभोगः ।

वरमन्ये गिरयो येषां तृणकाष्ठाद्युपभोगः ॥ १३ ॥
 

 
[^
]अनुष्टुब्जातौ विद्युन्मालाछन्दः,
 
For Private And Personal Use Only