This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भ्रमरैः ।

धावितमिभराजघिधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ॥

 
चिन्तयति न चूतलतां याति न जातिं न केतकीं क्रमते ।

कमललतालग्नमना मधुपयुवा केवलं कणति ॥ ७६ ॥

 
साहीणेसु न रच्चसि दुल्लहलम्भेसु वहसि अणुरायम् ।

हरिणाहि कमलकं खिर रे भसल सुदुक्करं जियसि ॥ ७७ ॥

 
ढुण्ढुण्णन्तो मरीहिसि कण्टयकलियाइं केयइ वणाइम् ।

मालइकुसुमसरिच्छं भमर भमन्तो न पाविहिसि ॥ ७८ ॥

 
वसिऊण सम्ग्गलोए गन्धं लहिऊण पारिजायस्स ।
 

रे भसल किं न लज्जसि सेवन्तो निम्बकुसुमाइम् ॥ ७९ ॥

 
गयगन्धं वलियरसं भूमीपडियं च केतकीकुसुमम् ।

तहविहु पुव्वसनेहो भमरो आलिङ्गनं देई ॥ ८० ॥
 

 
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोप मगुणसमाजसकलभट्टारकवृन्दवृन्दारक-

वृन्दारकराजपरमगुरुभट्टारकथी १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-

हंस विजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां विकलेन्द्रियजीवा-

न्योक्तिनिरूपकश्चतुर्थः परिच्छेदः ॥ ४ ॥
 

 
पञ्चमः परिच्छेदः ।

श्रीमच्छङ्खपुरस्फारभूमिमौलिमणीयते ।

नमः पार्श्वजिनेशाय विश्वकल्पद्रुमाय ते ॥ १ ॥
तब

 
तव
पार्श्वेशपादाब्जसपर्यातत्परा नराः ।

सुखश्रीसर्वसंपद्भिर्विलसन्त्यद्भुतोदयाः ॥ २ ॥

 
वाचंयमेश शं देहि देहिनां त्रिदशैर्नतः ।

तनुच्छविजितस्वर्णाचल वीर गभीरक ॥ ३ ॥

 
धनुर्बन्धचित्रम् ।
 

 
भद्रं मम महावीर शीघ्रं दद कुरु प्रभो ।

कल्याणकमलागार क्षमारससमायुतः ॥ ४ ॥
 
For Private And Personal Use Only
 
८५