This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
८४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मा गा विषादमलिपोतक केतकीना-

मन्तर्विगूढमनवाप्य मधुप्रकर्षम् ।

लाभः स एव भवतो यदि कण्टकानां

श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥

 
श्रियो वासोऽम्भोजे त्रिदिवसरिदम्भोजकुहरे

हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ ।

स दैवादुन्मीलत्तपनकरतापव्यतिकर

व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥

 
आयाति याति पुनरेति पुनः प्रयाति

पद्माङ्कुराणि विचिनोति धुनोति पक्षौ ।

उन्मत्तवद्भ्रमति कूजति रारटीति
 

कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥

 
अयं नीलस्निग्धो य इह विहरत्यम्बुजवने

विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः ।

अहं शङ्के पङ्केरुहकुहरवासे व्यसनिनीं
 

श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥

 
गन्धाढ्यां नवमालतीतीं मधुकरस्त्यक्त्वा गतो यूथिकां
 

तां त्यक्त्वाशु गतश्च चम्पकतरुं पश्चात्सरोजं गतः ।

रुद्धस्तत्र निशाकरेण सहसा क्रन्दत्यसौ मूढ[^१] हा
 

संतोषेण विना विवेकिमन ( सा ते) [सःसं] प्राप्नुवन्त्यापदम् ॥७२॥

 
गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
 

पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात ।
 

अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
 

स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ॥

 
मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
 

प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥
 

 
[^
१.] 'मूढधी: सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठः.
 
For Private And Personal Use Only