This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
८४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मा गा विषादमलिपोतक केतकीना-
मन्तर्विगूढमनवाप्य मधुप्रकर्षम् ।
लाभः स एव भवतो यदि कण्टकानां
श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥
श्रियो वासोऽम्भोजे त्रिदिवसरिदम्भोजकुहरे
हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ ।
स दैवादुन्मीलत्तपनकरतापव्यतिकर
व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥
आयाति याति पुनरेति पुनः प्रयाति
पद्माङ्कुराणि विचिनोति धुनोति पक्षौ ।
उन्मत्तवद्रमति कूजति रारटीति
 
कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥
अयं नीलस्निग्धो य इह विहरत्यम्बुजवने
विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः ।
अहं शङ्के पङ्केरुहकुहरवासे व्यसनिनीं
 
श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥
गन्धाढ्यां नवमालती मधुकरस्त्यक्त्वा गतो यूथिकां
 
तां त्यक्त्वाशु गतश्च चम्पकतरुं पश्चात्सरोजं गतः ।
रुद्धस्तत्र निशाकरेण सहसा कन्दत्यसौ मूढ हा
 
संतोषेण विना विवेकिमन ( सा ते) [सःसं] प्राप्नुवन्त्यापदम् ॥७२॥
गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
 
पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात ।
 
अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
 
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ॥
मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
 
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥
 
१. 'मूढधी: सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठः.
 
For Private And Personal Use Only