This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।

[^१]
विधिनिदेशविदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ६१ ॥

 
येनामोदिनि पङ्कजस्य मुकुले पीतं मधु स्वेच्छया

नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।

भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
 
८३
 

सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ ६२ ॥

 
इह सरसि सहर्षं मञ्जु गुञ्जाभिरामं
 

मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।

अनुपम मकरन्दामोददत्तप्रमोदा
 

त्यजति [तव] ( वत) न निद्रां मालती यावदेषा ॥ ६३ ॥

 
एनाममन्दमकरन्दविनिद्रबिन्दु-

संदोहदोहदपदं नलिनीं विमुच्य ।

हे मुग्ध षट्पद निरर्थकरागभाजि
 

जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥

 
निराचष्टे यष्टिं कुरबकतरोरब्जसरसा-

मसद्भाचंवं ब्रूते वदति बकुलानामकुशलम् ।

नान्ते चूतानामभवनमिहाख्याति वसति-

मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः ॥ ६५ ॥

 
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
 

रसाले सालम्बो लवमपि लवङ्गे न रमते ।

प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति

स्मरँलक्ष्मीलीला कमलमधुपानं मधुकरः ॥ ६६ ॥

 
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये

वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।

अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-

र्येनानेकपगण्डण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥
 

 
[^
१.] 'विधिवशात्परदेश' इति पाठान्तरम्.
 
For Private And Personal Use Only